________________
चतुर्थः सर्गः
२१
द्रुजन्तीति कूलमुदुजाः । महान्तश्च ते उक्षाणश्च महोक्षाः । लोलया खेला यस्य सः लीलाखेलः तं लीलाखेलम् ।
अभि० - उत्साहसमृद्धियुक्तस्य वपुष्मतः परदमनशीलस्य रघोः शौर्यस्य स्थूलदेहा मत्ता वृषभा नदीतटमुत्पाट्य स्वशृङ्गेरनुकरण विदधुः ।
हिन्दी - बहुत स्थूलकाय मतवाले वृषभों ने उत्साहसम्पन्न डीलडौल वाले रघु का अनुकरण अपने सींगों से नदी तट को उखाड़ते हुये किया ॥ २२ ॥ प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥ २३ ॥
सब्जीविनी - मदस्येव गन्धो येषां तैर्मदगन्धिभिः । " उपमानाच्च" इतीकार. समासान्तः । सप्तपर्णानां वृक्षविशेषाणाम् । 'सप्तपर्णो विशालत्वक्शा रही विषमच्छदः' इत्यमरः । प्रसवैः पुष्पंराहतास्तस्य रघोर्नागा गजा: । 'गजेऽवि नागमातङ्गी' इत्यमरः । श्रसूयये वाहतिनिमित्ततया स्पर्धयेव सप्तधैव प्रसुस्रुवु मंद ववृषुः प्रतिगजगन्धाभिमानादिति भावः । 'करोत्कटाभ्यां मेढाच्च नेत्राभ्यां च मदस्रुतिः' इति पालकाप्ये । करान्नासारन्ध्राभ्यामित्यर्थः ॥ २३ ॥
अन्वयः - मदगन्धिभिः, सप्तपर्णानाम्, प्रसवैः, श्राहताः तन्नागाः, असूयया, इव, सप्तधा, एव प्रसुस्रुवुः ।
वाच्य० - मदगन्धिभिः सप्तपर्णानाम् प्रसवः प्राहृतेः तन्नागैः प्रयूयया इव सप्तधा एव प्रसुस्रुवे ।
व्याख्या - मदस्य = दानस्य, गन्ध इव गन्ध: == सौरभं येषां तैस्तथोक्तः । तैः = मदसुरभिभिः | सप्तपर्णानाम् = विषमच्छदानाम् । प्रसवः = पुष्पैः । श्राहताः = ताडिताः । तस्य = रघोः, नागाः = गजाः । प्रसूयया = स्वधंया | इव = नूनम् । सप्तधा = सप्तस्यानेभ्यः एव प्रसुस्रुवुः = मदं ववृषुः ।
>
समा० - मदस्येव गन्धो येषां ते मदगन्धिनः, तेः मदगन्धिभिः । तस्य नागा: तन्नागाः ।
अभि० - रघोः सेनायां वर्तमाना गजाः सप्तपर्णकुसुमानां गन्धं घ्रात्वा मयं वन्यगजमदगन्ध इति स्पर्धये करकटादिभ्यः स्वयमपि सप्तस्थानेभ्यः मत्रं ववृषुः ।