________________
रघुवंश महाकाव्ये
व्याख्या - हंसानाम् = मरालानाम्, श्रेणीषु = पंक्तिषु इति हसश्रेणीषु । तारासु = नक्षत्रेषु । कुमुदाः सन्ति येषां तादृशेषु, वारिषु = जलेषु च । तस्येमानि सदीयानि तेषां तदीयानाम् = रघुसंबन्धिनाम् । यशसाम् = कीर्तीनाम् । विभू• सपत्तयः, धवलिमा इत्यर्थः, पर्यस्ताः = प्रसारिताः किमु इत्युत्प्रेक्षा । समा०-- हंसानां श्रेण्यः हसश्रेण्यः, तासु हंसश्रेणीषु । कुमुदानि एषु सन्तीति कुमुहन्ति तेषु कुमुद्वत्सु । तस्य इमाः तदीयाः ।
तयः
१८
अभि० - शरदि हंसपंत्तिषु कुमुदयुक्तेषु सरोवरादिषु च रघुयशस एव धवलिमसमृद्धिः प्रसृतेवासीत् ।
हिन्दी -- शरत् ऋतु में हस की पक्तियों में कुमुदनामक श्वेत कमलों से युक्त सरोवरों में ऐसा मालूम पड़ता था कि मानो रघु के यश की समृद्धि फैली हुई है ।। १९ ।।
इक्षुच्छायनिपादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ||२०||
सञ्जीवनी - इक्षूणां छायेक्षुच्छायम् । 'छाया बाहुल्ये' इति नपुंसक - त्वम् । तत्र निषण्णा इक्षुच्छायनिषादिन्यः । 'इक्ष ुच्छाया निषादिन्यः' इति स्त्रीलिङ्गपाठे इक्षोरछायेति विग्रहः । अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात् । शालीन्गोपायन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्रियः । 'कर्मण्यण् ' इत्यण् । 'टिड्ढाणञ्' इत्यादिना ङीप् । गोप्तू रक्षकस्य तस्य रघोः । गुणेभ्य उदयो यस्य तद् गुणोदय गुणोत्पन्नमाकुमारं कुमारादारभ्य कथोद्घातः कथारम्भो यस्य तत् । कुमारैरपि स्तूयमानमित्यर्थः, यशो जगुर्गायन्तिस्म । अथवा कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत श्रारभ्याकुमारकथम् । तत्राप्यभिविधावव्ययीभावः । श्राकुमारकथमुद्घातो यस्मिन्कर्मणि । गानक्रियाविशेषरणमेतत् । ‘स्यादभ्यादानमुद्घात आरम्भ:' इत्यमरः । श्राकुमारकथोद्भुतम्' इति पाठे कुमारस्य कथाभिश्चरितैरद्भुतं यद्यशस्तद्यश प्रारभ्य यशो जगुरिति व्याख्येयम् ||२०||
अन्वयः—इक्षुच्छायनिपादिन्यः, शालिगोप्यः, गोप्तुः, तस्य, गुणोदयम्, श्राकुमारकथोद्धातम्, यशः, जगुः ।
वाच्य० - इक्षुच्छायनिषादिनीभिः, शालिगोपीभिः, यशः, जगे ।