________________
चतुर्थः सर्गः व्याख्या-इथूणां=पोण्डकाणां, छाया प्रनातप इति इक्षुच्छायं, तस्मिन् निषीदन्ति उपविशन्ति तच्छीला: तथोक्ताः। शालीन् गोपायन्तीति, ता:शस्यपालिकाः स्त्रियः। गोपायतीति गोप्ता, तस्य गोप्तुः = रक्षकस्य, तस्य = रघोः । गुणेभ्य उदयो यस्य तत् गुणोदयं गुणोत्सन्नम् । कुमारादारभ्य इत्याकुमारम्, प्राकुमारं कथाया:-चरित्रस्य, उद्धातः = प्रारम्भः यस्य तत् तथोक्तम् । यश:- कीर्तिम, जगुः = गायन्ति स्म ।
सम-इथूणां छाया इक्षु च्छायम्, इक्षुच्छाये निषीदन्तीति इक्षुच्छाय. निषादिन्यः। शालीन् गोपायन्तीति शालिगोप्यः । गुरणेभ्यः उदयः यस्य तत् गुणोदयम्, तत् गुणोदयम् । कथायाः उद्घातः तत् कथोद्घातम्. कुमारादारभ्य कथोद्घातं यस्य तत् प्राकुमारकथोद्धातम्, तत् प्राकुमारकथोद्धातम् । कुमारस्य कथाः कुमारकथाः, कुमारकथा प्रारभ्य प्राकुमारकथम्, प्राकुमारकथम् उदात: यस्मिन् कमरिण यथा भवति तथेति क्रियाविशेषणं वा।
अभि०-इक्षणां छायासु समुपविष्टाः शस्यपालिकाः रघो: कौमार्यादारभ्य शौर्यादिगुणयुक्तं यशः गायन्ति स्म ।
हिन्दी-ईख की छायामों में बैठी हुई कृषकों की स्त्रियाँ प्रजावगं की रक्षा करनेवाले रघु की शूरता को, जो कि बाल्यकाल से ही प्रसिद्ध थी, गाती थीं ।।
प्रससादोदयादम्भः कुम्भयोनेर्महौजसः।
रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥२१॥ सञ्जीविनी--महौजसः कुम्भयोनेरगस्त्यस्य । 'अगस्त्यः कुम्भसम्भवः' इत्यमरः । उदयादम्भः प्रससाद प्रसन्नं बभूव । महौजसो रघोरुदयादभिभवाशङ्कि द्विषतां मनश्चुक्षुभे कालुष्यं प्राप । 'अगस्त्योदये जलानि प्रसीदन्ति' इत्यागमः ।।
अन्वयः-महौजसः, कुम्भयोनेः, उदयात्, अम्भः, प्रसाद, ‘महौजसः' रघोः, उदयात्, पभिभवाशङ्कि, द्विषताम्, मनः, चुक्षुभे ।
वाच्य--अम्भसा, प्रसेदे, अभिभवाशकिना, द्विषतां, मनसा, चुक्षुभे ।
व्याख्या-महत्, प्रोजो = बलं, यस्य सः, तस्य महौजसः । कुम्भयोनेःअगस्त्यस्य । उदयात् = प्रादुर्भावात् । सम्भः = जलम्, प्रससाद=निर्मलं बभूव । महौजसः = बलशालिन:, रघोः = दिलीपकुमारस्य, उदयात् = अभ्युत्थानात् ।