________________
चतुर्थः सर्गः
१७
सञ्जीविनी - प्रसादेन सुमुखे तस्मिन्रघो विशदप्रभे निर्मलकान्तौ चन्द्रे द्वयोर्विषये तदा चक्षुष्मतां प्रीतिरनुरागः समरसा समस्त्रादा । तुल्यभोगेति यावत् " रसो गन्धे रसः स्वादे" इति विश्वः । श्रासीत् ॥ १८ ॥
अन्वयः - प्रसादसुमुखे, तस्मिन्, विशदप्रभे, चन्द्रे च द्वयोः, तदा, चक्षुष्मताम् प्रीतिः, समरसा, प्रासीत् ।
वाच्य०- -चक्षुष्मताम् प्रीत्या समरसया, प्रभूयत ।
व्याख्या प्रसादेन = प्रसन्नतया, सुमुखे = शोभनानने, तस्मिन् = रषौ । विशदा = स्वच्छा, प्रभा = कान्तिर्यस्य तादृशे चन्द्रे = चन्द्रमसि च । द्वयोः रघुचन्द्रयोः, तदा तस्मिन्काले । चक्षुरस्ति येषां तेषा चक्षुष्मतां नेत्रवताम्, प्रीतिः = प्रनुरक्तिः, समः = तुल्यो रसो= रुचिः, यस्याः तादृशी । प्रासीत् ।
=
समा० - सुष्ठु मुखं यस्य सः सुमुखः, प्रसादेन सुमुखः प्रसादसुमुखः, तस्मिन् प्रसादसुमुखे । विशदा प्रभा यस्य सः विशदप्रभः तस्मिन् विशदप्रभे । चक्षुः एषामस्तीति चक्षुष्मन्तः, तेषां चक्षुष्मताम् । समः रसः यस्या सा समरसा ।
अभि० - - यथा जनाः शरदि निर्मलं चन्द्रमसं दृष्ट्वा हृष्टा बभूवुः, तथैव चारुकान्तिमन्तं रघुं दृष्ट्वाऽपि ते प्रसन्ना जाताः ।
हिन्दी - जिस प्रकार मनुष्य शरद् में निर्मल चन्द्रमा को देखकर प्रसन्न होते थे उसी प्रकार रघुके सुन्दर मुख को देखकर भी भा ह्लादयुक्त होते थे ॥ १८ ॥ हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु । विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ १६॥
सञ्जीवनी - हंसानां श्रेणीषु पंक्तिषु । तारासु नक्षत्रेषु । कुमुदानि येषु सन्तीति कुमुद्वन्ति । 'कुमुद्वान्कुमुदप्रायः' इत्यमरः । " कुमुदनडवे उसेभ्यो मतुप्” । तेषु । कुमुदप्रायेष्वित्यर्थः । वारिषु च तदीयानां रघुसंबन्धिनां यशसां विभूतयः संपदः पर्यस्ता इव प्रसारिताः किम् । इत्युत्प्रेक्षा श्रन्यथा कथमेषां धवलतेति भावः ।। १६ ।।
अन्यवः- हंसश्रेणीषु, तारासु, कुमुद्रत्सु, वारिषु च तदीयानाम् यशसाम्, विभूतयः, पर्यंस्ताः इव ।
वाच्य०- - विभूतिभिः पर्यप्ताभिः इव प्रभूयत ।