________________
GI
तृतीयः सर्गः ततो निषङ्गादसंग्रमुद्धृतं सुवर्णपुंखद्युतिरञ्जिताङ्गुलिम् ।
नरेन्द्रसूनुः प्रतिसंहरन्निधू प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥६४॥ सम्जीविनी-तत इन्द्रवचनोत्तरं निषङ्गात्तूणीरादसमग्रं यथा तथोद्धतं सुवर्णपुंखद्युतिमी रञ्जिता अंगुलयो येन तमिषं प्रतिसंहरन्निवर्तयन्। न प्रहरन्तं प्रहरेदिति निषेधादिति भावः । प्रियं वदतीति प्रियंवदः। "प्रियवशे वदः खच्" इति खच्प्रत्ययः । “अरुहिषद जन्तस्य मुम्' इत्यनेन मुमागमः । नरेन्द्रसनू रघुः सुरेश्वरमिन्द्रं प्रत्यवदत् प्रत्युक्तवान् । न तु प्राहरदिति भावः ॥ ६४ ॥
अन्वयः--ततः, निषङ्गात्, असमग्रम् , 'यथा स्यात्तथा' उद्धतम् , सुवर्णधुङ्खद्युतिरन्जिताङ्गुलिम् , इषुम् , प्रतिसंहरन् , प्रियंवदः, नरेन्द्रसूनुः, सुरेश्वरम्, प्रति, अवदत् ।
वाच्य-प्रतिसंहरता प्रियंवदेन नरेन्द्रसूनुना सुरेश्वरः प्रत्यौच्यत ।
याख्या-ततः = तदनन्तरम् । निषङ्गात् = तूणीरात् । न समग्रमित्यसमग्रम् = असम्पूर्णम्, यथा स्यात्तथा, उद्धृतम् = निष्कासितम् । सुवर्णस्य = कनकस्य, पुंखः= बाण मूलभागः इति सुवर्णपुखः तस्य द्युतयः कान्तयः इति सुवर्णपुलद्युतयः, ताभिः रञ्जिताः= रञ्जनत्वमापादिताः, अङ्गुलयः = करशाखाः येन सः सुवर्षपुङ्गद्युतिरञ्जिताङ्गुलिः, तं तयोक्तम् । इषुम् = बाणम् । प्रतिसंहरन् निवर्तयन् । प्रियम् = इष्टम् वदति = कथयति, इति प्रियंवदः। नराणां = मनुष्याणामिन्द्रः स्वामी, इति नरेन्द्रः=राजा दिलीप इत्यर्थः । तस्य सूनुः पुत्रः रघुः । सुराणाम् - देवानाम् , ईश्वरः = स्वामी, सुरेश्वरः =इन्द्रः, तं सुरेश्वरम् । प्रत्यवदय=जगाद ।
समा०-न समग्रम् असमग्रम् 'क्रियाविशेषणम्' । सुवर्णस्य पुतः सुवर्णपुखः, सुवर्णपुखस्य द्युतयः सुवर्णपुडद्यतयः, सुवर्णपुङ्खद्युतिभिः रजिता अङ्गुलयो येन सः सुवर्णपुङ्थुतिरञ्जिताङ्गुलिः, तं सुवर्णपुलद्युतिरन्जितागुलिम् । नराणामिन्द्रः नरेन्द्रः, नरेन्द्रस्य सूनुः नरेन्द्रसू नुः । सुराणामीश्वरः, तं सुरेश्वरम् । __अभि०-स्वतूणीरादर्धनिष्कासितं बाणं पुनस्तूणीरे एव कुर्वन् रघुः मधुरेण स्वरेण इन्द्रं प्रत्युवाच ।
हिन्दी-अपने तरकस से आधे निकाले बाण को फिर वापस तरकस में करते हुये रघु ने मधुर स्वर से कहा ॥ ६४ ॥
अमोच्यमश्वं यदि मन्यसे प्रमो ततः समाप्ते विधिनैव कर्मणि । अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ।। ६५ ॥
सम्जीविनी-हे प्रभो इन्द्र ! अश्वममोच्यं मन्यसे यदि ततस्तीजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्मणि समाप्ते सति तोर्यत्फलं तेन फलेना शेषेण कस्नेन युज्यता युक्तोऽस्तु । अश्वमेधफललामे किमश्वेनेति भावः ॥ ६५ ॥