________________
रघुवंश महाकाव्ये
अन्वयः - हे प्रभो, यदि, अश्वं, अमोच्यं मन्यसे, ततः अजस्रदीक्षा. प्रयतः, सः मद्गुरुः, विधिना, एव, कर्मणि, समाप्ते, 'सति', क्रतोः, अशेषेण फलेन युज्यताम् ।
artro - यदि त्वया, अश्त्रः, अमोच्यः, मन्यते, ततः अजस्त्रदीक्षाप्रयतेन, तेन, सद्गुरुणा क्रतोः, अशेषेण, फलेन, युज्यताम् ।
व्याख्या - प्रभवति = समर्थां भवति, इति प्रभुः, संबुद्धौ हे प्रभो । यदि = चेत्, अश्वम् = तुरङ्गमम् । मोक्तुं = परित्यक्तुं योग्यः मोच्यः, न मोच्यः अमोच्यः, तम् अमोच्यम् । मन्यसे = जानासि । ततः = तदा । अजस्रं = निरन्तरं, दीक्षा = यज्ञदीक्षा, तत्र प्रयतः तत्परः इति अजत्रदीक्षा प्रयतः । सः = प्रसिद्धः । मम = रघोः गुरुः = पिता इति मद्गुरुः, 'गुरू गीष्पतिपित्रादौ ' इत्यमरः । विधिना = शास्त्रानुकूलविधानेन एत्र कर्मणि = कायें । समाप्ते = अवसिते । 'सति', क्रतोः = यज्ञस्य । अशेषेप्य = सम्पूर्णेन । फलेन = लाभेन । युज्यताम् = युक्तो भवतु ।
५४
समा० – मोक्तु ं योग्य: मोच्यः, न अमोच्यः, तम् अमोच्यम् । अजस्त्रं दीक्षा अजस्रदीक्षा अजस्त्रदीक्षायां प्रयतः अजस्रदीक्षाप्रयतः । मम गुरुः मद्गुरुः । न विद्यते शेषो यस्य तत् श्रशेषम् तेन अशेषेण ।
अभि० - हे इन्द्र, यदि त्वमश्वस्य मोचनं न कर्तुमिच्छसि तहि मम पिता अश्वं विनैव अश्वमेघ यज्ञस्य सकलं फलं यथा प्राप्नोति तथा कुरु ।
हिन्दी-रघु ने कहा कि हे इन्द्र, यदि आप घोड़े को छोड़ना उचित नहीं समझते तो मेरे पिता, आरम्भ किये हुए, अश्वमेध यज्ञ के विधिवत् समाप्त होने पर जो फल प्राप्त होता है, उस सम्पूर्ण फल को प्राप्त करें ॥ ६५ ॥
यथा च वृत्तान्तमिमं सदोगत त्रिलोचनैकांशतया दुरासदः ।
तबैव सन्देशहराद्विशांपतिः शृणोति लोकेश ! तथा विधीयताम् ।। ६६ ।। संजीविनी - सदोगतः सदोगृहं गतस्त्रिलोचनस्येश्वरस्यैकांशतयाष्टानामन्यतममूर्तित्वात् । दुरासदोऽस्मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तत्र संदेशहराद्वार्ताहर । देव शृणोति च । हे लोकेन्द्र तथा विधीयताम् ॥ ६६ ॥
अन्वयः -
- सदोगतः, त्रिलोचनैकांशतया, दुरासदः, विशांपतिः यथा, इमम्, वृत्तान्तम् तव, सन्देशहरात् एव शृणोति, च, हे, लोकेश, तथा, विधीयताम् । वाच्य० -- सदोगतेन, दुरासदेन, विशांपतिना, यथा, श्रयं वृत्तान्तः, श्रूयते तथा त्वं, विधेहि ।
>
व्याख्या – सदः = सभाम् । गतः = प्राप्तः इति सदोगतः । त्रीणि = त्रिसंख्यकानि, लोचनानि नेत्राणि यस्य सः त्रिलोचनः शिवः इत्यर्थः । एकः = केवलः चासौ, अंशः - भागঃ इति एकांशः, विलोचनस्यैकांशः इति त्रिलोचनैकांशः, तस्य भावः त्रिलोचनैकांशता, तया तथोचया । दुःखेन = कष्टेन, आसादयितुम् = लब्धुं योग्यः इति दुरासदः । विशांपतिः = नरेन्द्रः |