________________
५२
रघुवंशमहाकाव्ये हतवान् = व्यापादितवान् , स वृत्र हा=इन्द्रः इत्यर्थः। तुतोष = तुष्टिं लेमे। हि = यतः। सर्वत्र शत्रुमित्रोदासीनेषु । गुणैः शौर्यादिभिः । पदम् == चरणः । निधीयते == स्थाप्यते ।। __समा०-शस्त्राणां व्यवहारः शस्त्रव्यवहारः, शस्त्रव्यवहारेण निठुरः शस्त्रव्यवहारनिष्ठुरः, तस्मिन् शस्त्रव्यवहारनिष्ठुरे : विपक्षस्य भावः विपक्षमावः, तस्मिन् विपक्षमावे । तस्थो इति तस्थिवान् , तस्य तस्थुषः । बीर्यस्य अतिशयः वीर्यातिशयः, तेन वीर्यातिशयेन।
अमि०-शस्त्रव्यवहारेपा शत्रुत्वं प्रकारायतोऽपि रघोः पराक्रमेपोन्द्रः प्रसन्नो बभूव । यतः शौर्यादया गुप्पाः शत्रनपि प्रसन्नान् कुर्वन्ति ।
हिन्दी-शस्त्र प्रयोग के कारण शत्रुता में देर तक किनेवाले रघु के अतिशय पराक्रम से इन्द्र प्रसन्न हुए; क्योंकि गुणों का आदर शत्रु भी करते हैं ॥६२॥
असामद्रिष्वपि सारवत्तया न मे स्वदन्येन विसोढमायुधम् । अवेहि मां प्रीतमृते तुरङ्गमात्किमिच्छसीति स्फुटमाह वासवः ॥६३॥
संजीविनी-सारवत्तयाद्रिष्वप्यसङ्गमप्रतिबन्ध मे आयुधं वज्र त्वदन्येन न विसोढम् नासयत । नतो मां पोतं सन्तुष्टमदेहि । तुरंगमादृदे तुरंगं वर्जयित्वा । “अन्यारादितरर्ते" इति पञ्चमी । किमिच्छसीति स्फुट कासव आह । तवेयता पराक्रमेण प्रसन्नस्य मे तुरंगमादन्यददेयं नास्तीति भावः ॥ ६३॥
अम्वर:- सारवत्तया, अद्रिा, अपि, असङ्गम् , मे, श्रायुधम् , स्वदन्येन, न, विसोढम् , अतः, माम् , प्रीतम् , अवेहि, तुरङ्गमात् , ऋते, किम् , इच्छसि इति, स्फुटम् , वासवः माह । __वाच्य०--त्वदन्यः न विसोढवान् । अहम् प्रोतः अवेयै। किम् इष्यते इति वासवेन औच्यत।
व्याख्या-सारः = बलम् अस्त्यस्मिन्निति सारवत् , तस्य भावः सारवत्ता; तया सारवत्तया । अद्रिषु-पर्वतेषु । अपि असङ्गम् = प्रतिवन्धरहितम् । भे= मम, रन्द्रस्य । श्रायुधम् - शस्त्रम् वज्ररूपम् । त्वत्तः= त्वत्सकाशात, अन्यः = अपरः, इति त्वदन्यः, तेन त्वदन्येन । न = नहि । विसोढम् = सहनं कृतम् । अतः, माम् = इन्द्रम् । प्रसन्नम् = हृष्टम् । अवेहि - जानीहि । तुरङ्गमात=अश्वात् । ऋते = विना । किम् = वस्तु। इच्छसि = अभिलषसि । इति एवम् । स्फुटम् = स्पष्टम् । वासः इन्द्रः । आह =: अकथयत् ।
समा०-सारः अस्यास्तीति सारवत्, सारवतः भावः सारवत्ता, तया सारवत्तया । न विद्यते सङ्गो यस्य तत् असङ्गम् । त्वत् ( पं० ए०) अन्यः त्वदन्यः, तेन त्वदन्येन ।
अभि-अतीव बलवन्ममेदं वज्रं त्वां विहाय न के.नचित्सोढम् , अतोऽहं त्वयि प्रसन्नः, तुरङ्गमं विहाय यद्वान्छसि तद्ददामीति रघुमिन्द्र उवाच ।
हिन्दी- पर्वतों के छेदन में भी जिसकी गति कुण्ठित न हो सकी ऐसे इस मेरे वज्र को तुम्हें छोड़कर आज तक कोई भी सहन नहीं कर सका है। मैं तुमसर प्रसन्न हूँ। घोड़े को छोड़कर चाहे कुछ भी माँग लो, इस प्रकार इन्द्र ने रघु से स्पष्ट शब्दों में कहा ॥ ६३ ॥