________________
तृतीयः सर्गः बाच्य०-रघुणा, तेन, भृशम् , ताडितेन 'सता' पेते, उत्थितम् ।
व्याख्या-रघुः=दिलीपसुतः। तेन= वज्रेण। भृशम् = प्रत्यर्थम् । वक्षसि = उरसि, ताडितः=विद्धः 'सन्'। सेनायां समवेताः सैनिकाः=सेनापुरुषाः, तेषाम् । अश्रूणि=नेत्रजलानि, इति सैनिकाणि, तैः सैनिकाश्रुभिः। सह =सार्धम् । भूमौ पृथिव्याम् । पपातअपतत् । निमेष एव निमेषमात्रम् = क्षणमात्रम् , तरमान्निमेषमात्रात् । तस्य = वज्रस्य, व्यथा पीडा इति तद्यथा, ताम् तद्यथाम् । अवधूय = निरस्य । सेनायां समवेताः । सैनिकाःसेना पुरुषाः तेषां हर्षेण = आमोदेन, निःस्वनाः =शब्दाः इति सैनिकहर्षनिःस्वनाः, तैः सैनिकहर्षनिःस्वनैः । सह = सार्थम् , उत्थितः = उत्तस्थौ।
समा०-सैनिकानामभूणि सैनिकाणि, तैः सैनिकाश्रुभिः । केवलं निमेषः निमेषमात्रम् , तस्मात् निमेषमात्रात् । तस्य व्यथा तद्यथा, तां तद्व्यथाम् । हर्षेण निःस्वनाः हर्षनिःस्वनाः, सैनिकानां हर्षनिःस्वनाः सैनिकहर्षनिःस्वनाः, तैः सैनिकहर्षनिःस्वनैः।
अभि०-यथैव वज्रेण ताडितो रघुः पृथिव्यां पपात तथैव सैनिकानामपि दुःखेनाSणि भूमौ पतितानि। क्षणमात्रेणैव च यथा तत्पीडां तिरस्कृत्य रघुरुत्थितस्तथैव सैनिकानामपि हर्षेण जवशब्दा बभूवुः।
हिन्दी-जैसे ही रघु वज्र की चोट से पृथिवी पर गिरा, सैनिकों के भी आँसू गिरे, एवं ज्योंही क्षणमात्र में वज्र की पीडा भूल कर रघु पृथ्वी से उठा, सैनिकों में हर्ष से जयध्वनि ( सिंहनाद ) गूंज उठी ॥ ६१ ॥
तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षमावे चिरमस्य तस्थुषः। तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणनिधीयते ॥ ६२ ।।
सीविनी-तथापि वज्रपातेऽपि शस्त्राणामायुधानो व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोवीर्यातिशयेन । वृत्रं हतवानिति वृत्रहा । 'ब्रह्मभ्रणवृत्रेषु क्विप्'। तुतोष । स्वयं वीर एव वीरं जानातीति भावः । कथं शत्रोः संतोषोऽत
आह-गुणः सर्वत्र शत्रुमित्रोदासीनेषु पदमंघिनिधीयते । गुणः सर्वत्र संकम्यत इत्यर्थः । गुणाः शवनप्यावर्जयन्तीति भावः ॥६२॥
अन्वयः-तथापि शस्त्रव्यवहारनिष्ठुरे, विपक्षमावे, चिरम् , तस्थुषः अस्य, वीर्यातिशयेन वृत्रहा, तुतोष, हि, सर्वत्र, गुणैः, पदम् , निधीयते ।
वाच्य०-वृत्रना तुतुषे, हि गुणाः सर्वत्र पदम् निदधति ।।
व्याख्या-तथापि = वज्रप्रहारेऽपि । शस्यन्ते = हन्यन्ते शत्रवः एभिः इति शस्त्राणि, तेषां व्यवहारः = प्रयोगः इति शस्त्रव्यवहारः, तेन निष्ठुरः क्रूर इति शस्त्रव्यवहारनिष्ठुरः, तस्मिंस्तथोक्ते। विरुद्धः पक्षो यस्यासौ विपक्षः, तस्य भावः विपक्षमावः =शत्रुता, तस्मिन्. विपक्षमावे। चिरम् = बहुकालम् । तस्थुषः = स्थितवतः, अस्य एतस्य, रषोः। वीर्यस्यतेजसः, अतिशयः=आधिक्यम् ति वीर्यातिशयः, तेन वीर्यातिशयेन । वृत्रं तन्नामानमसुरम्,