________________
रघुवंशमहाकाव्ये
स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥ ६ ॥ सम्जीविनी-विवृद्धमत्सरः प्रवृद्धवैरः स इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रथाशनाय वधाय मही धारयन्तीति महीधाः पर्वताः मूलविभुजादित्वात्कप्रत्ययः । तेषां पक्षव्यपरोपणे पक्षच्छद उचितं स्फुरत्प्रभामण्डलमस्त्रं वज्रमायुधमाददे जग्राह ॥ ६०॥
अन्वयः-विवृद्धमत्सरः सः, चापम्, उत्सृज्य, प्रबलस्य, विद्विषः, प्राणशनाय, महीध्रपक्षन्यपरोपणोचितम् स्फुरत्प्रभामण्डलम् , अस्त्रम् , आददे।
पाच्य०- विवृद्धमत्सरेण, तेन स्फुरत्यभामण्डलम् , अस्त्रम् , आददे ।
व्याख्या-विवृद्धः=वृद्धि गतः, मत्सरः = क्रोधः यस्यासौ विवृद्धमत्सरः। सःइन्द्रः। चापम् =धनुः । उत्सृज्य परित्यज्य । प्रकृष्टं बलम् =शक्तिः यस्यासौ प्रबलः, तस्य प्रबलस्य । विशेषेण द्वेष्टि = द्वेषं करोति इति विद्विट् , तस्य विद्विट् , शत्रोरित्यर्थः। प्रणाशनाय = मारणाय । महीम् = पृथ्वीं धारयन्ति धारणं कुर्वन्ति इति महीधाः पर्वताः इत्यर्थः, तेषां पक्षाः=गरुतः इति महीध्रपक्षाः. तेषां व्यपरोपणम् = कर्तनम् इति महीध्रपक्षव्यपरोपणम् , तत्र उचितम् = अभ्यस्तम् इति महीध्रपक्षव्यपरोपणोचितम् , तत्तथोक्तम् । अवम् = आयुधम् , वज्रमित्यर्थः। बाददे=जग्राह ।
समा०—विवृद्धः मत्सरः यस्य सः विवृद्धमत्सरः। महीं धारयन्तीति महीधाः, महीध्राणां पक्षाः महीध्रपक्षाः, महीध्रपक्षाणां व्यपरोपणं महीध्रपक्षव्यपरोपणम् , महीध्रपक्षव्यपरोपणे उचितं महीध्रपक्षव्यपरोपणोचितम् , तत् महीध्रपक्षव्यपरोपणोचितम् । प्रभायाः मण्डलं प्रभामण्डलम् , स्फुरत् प्रभामण्डलं यस्य तत स्फुरत्प्रभामण्डलम् , तत् स्फुरत्प्रभामण्डलम् ।
अभि०-ततः इन्द्रः रघोर्वधाय खण्डितं धनुः परित्यज्य गिरिपक्षकर्तनप्रसिद्धं स्ववजं गृहीतवान् ।
हिन्दी-तब इन्द्र ने रघु का वध करने के लिये टूटा हुआ धनुष छोड़ कर पर्वतों के पर काटने में प्रसिद्ध अपना अस्त्र वज्र उठाया ॥६० ॥
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय तद्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥ ६१ ॥
संजीविनी-रघुस्तन वज्रण भृशमत्यर्थ वक्षास ताडितो हतः सन् । सैनिकानामश्रुभिः सह भूमौ पपात । यस्मिन्पतिते ते रुरुदुरित्यर्थः। निमेषमात्रात्तद्वयथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निःस्वनाः श्वेडारतैः सहोत्थितश्च । तस्मिन्नात्यते हर्षात्सिहनादांश्चक्रुरित्यर्थः ॥ ६१ ॥
अन्वयः-रघुः तेन, भृशम् , वक्षसि ताडितः 'सन्' सैनिकाश्रुभिः सह, भूमौ, पपात, मिमेषमात्रात् , तद्वयथाम् , अवधूय, सैनिकहर्षनिःस्वनैः, सह, उत्थितः।