________________
तृतीयः सर्गः
४९
हिन्दी - जैसे कि मेघ अपने से हो उत्पन्न बिजली के तेज को वृष्टि द्वारा शान्त नहीं कर सकता, उसी प्रकार अपने ही अंग ( राजा लोकपालों का अंश होता है ) से उत्पन्न रघु को इन्द्रत्रों की वृष्टि से न जीत सका ॥ ५८ ॥
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णव धीरनादिनीम् ।
रघुः शशाङ्कार्धमुखेन पत्रिगा शरासनज्यामलुनाद् विडौजसः ॥ ५९ ॥ सञ्जीविनी - ततो रघुर्हरिचन्दनाङ्गिने को मणिबन्धे प्रमथ्यमानार्णव वीरनादिनों प्रमथ्यमानार्णव इव धीरं गम्भीरं नहतीति तां तथोक्ताम् । वेत्रेष्टि व्याप्नोतीति विट् व्यापकमोजो यस्य स तस्य विडोजम इन्द्रस्य । पृषोदरादित्वात्साधुः । शरासनज्यां धनुत्र शशांकस्यार्थः खण्ड इत्र मुखं फलं यस्य तेन पत्रिणालुनावच्छिनत् ॥ ५९ ॥
अन्वयः -- ततः, रघुः, हरिचन्दनाङ्किते, प्रकोष्ठे, प्रमथ्यमानार्णवधीरनादिनीम्, विडौजसः, शरासनज्याम्, शशाङ्कार्धमुखेन पत्रिणा, अलुनात् ।
"
वाच्य० -- ततः रघुणा हरिचन्दनाङ्किते प्रकोष्ठे, प्रमथ्यमानार्ण धरनादिनी, विडौजसः शरासनज्या, अल्यत ।
2
,
·
व्याख्या - ततः = तदनन्तरम् । रघुः = दिलीपसूनुः । हरिचन्दनेन = कल्पवृक्षेण, अङ्कितः == चिह्नितः इति हरिचन्दनाङ्कितः तस्मिन् हरिचन्दनाङ्किते । प्रकोष्ठे = मणिबन्धस्थाने । प्रमथ्यते = आलोड्यते इति प्रमथ्यमानः स चासौ अर्णवः समुद्रः इति प्रमथ्यमानार्णवः, धीरम् = गंभीरम् नदितुं ध्वनितुं शीलमस्या इति धीरनादिनी, प्रमथ्यमानार्णव इव धीरनादिनी इति तथोक्ता, ताम् । विट् = व्यापकम्, श्रीजः == तेजः यस्यासौ विडौजाः = इन्द्रः, तस्य विडौजसः । शरः = बाणः, श्रस्यते = क्षिप्यते अनेन इति शरासनम् धनुरित्यर्थः, तस्य ज्या = मौव इति शरासनज्या, तां शरासनज्याम् । शशः = मृगविशेषः, अङ्के = क्रोडे, यस्यासौ शशाङ्कः, तस्यार्धः = खण्डः इति शशाङ्कार्थः, स इव मुखम् श्राननम्, अग्रभाग इत्यर्थः यस्यासौ शशाङ्कार्धमुखः, तेन तथोक्तेन । पत्रम् - दलम् अस्यास्तीति पत्री = बाणः, तेन पत्रिष्या अलुनातू = चिच्छेद |
समा० - हरिचन्दनेन अङ्कितः हरिचन्दनाङ्कितः, तस्मिन् हरिचन्दनाङ्किते । प्रमथ्यते इति प्रमथ्यमानः प्रमथ्यमानश्चासौ अर्णवश्च प्रमथ्यमानार्णवः, धीरं नदितुं शीलमस्या इति धोरनादिनी, प्रमथ्यमानार्णवत् धीरनादिनी प्रमथ्यमानार्णवधीरनादिनी, तां प्रमथ्यमानार्णवधोरनादिनीम् । विड् व्यापकं प्रोजो यस्य सः विडौजाः, तस्य विडौजसः । शरासनस्य ज्या शरासनज्या, तो शरासनज्याम् । शशस्य अङ्को यस्य सः शशाङ्कः, शशाङ्कस्य अर्द्ध: शशाङ्कार्डः, शशाङ्कार्द्ध श्व मुखं यस्य सः शशाङ्कार्द्धमुख:, तेन शशाङ्कार्द्धमुखेन ।
अभि०- - ततः रघुणा, इन्द्रस्य गम्भीरशब्दवती व अर्द्धचन्द्राकृतिना बाणेन छिन्ना । हिन्दी- -तब रघु ने इन्द्र की कलाई पर, जो कि हरिचन्दन से चिह्नित थी, स्थित धनुष को डोरी को, जो कि मथे जाते हुए समुद्र के समान गम्भीर शब्द कर रही थी- अर्धचन्द्राकार फलवाले बाण से काट डाला ॥ ५९ ॥