________________
४६
रघुवंशमहाकाव्ये अन्वयः-कुमारविक्रमः, कुमारः, अपि, सुरद्विपास्फालनकर्कशाङ्गुली, शचीपत्रविशेषकाङ्किते, हरेः, भुजे, स्वनामचिह्न, सायकम् , निचखान ।
वाच्य०-कुमारविक्रमेण कुमारेण अपि स्वनामचिह्न सायकः, निचख्ने ।
व्याख्या-कुमारस्य = कार्तिकेयस्य, विक्रमः इव विक्रमः = पराक्रमः यस्य स तथोक्तः, कुमारः = दिलीपपुत्रः रघुरित्यर्थः । अपि । द्वाभ्यां पिबतीति द्विपः=गजः, सुराणम् = देवानाम् द्विपः इति सुरद्विपः, तस्य आस्फालनम् =ताडनम् इति सुरद्विपास्फालनम् , तेन कर्कशा:= कठिनाः, अङ्गुलयः = करशाखाः यस्य स सुरद्विपास्फालनकर्कशाङ्गुलिः, तस्मिन् तथोक्ते । शच्याः=इन्द्राण्याः, पत्रविशेषकापि = पर्णतिलकानि इति शचीपत्रविशेषकापि, तैः । अकित:चिह्नितः इति शचीपत्रविशेषकाङ्कितः, तस्मिन् । हरेः=इन्द्रस्य । भुजे=बाही। स्वस्य = निजस्य, नाम = अभिधेयम् इति स्वनाम । तत् चिह्न लक्षण यस्य स स्वनामचिह्नस्तं तथोक्तम् सायकम् =बाणम् । निचखान = निखातवान् ।
समा०-कुमारस्य विक्रम इव विक्रमो यस्य सः कुमारविक्रमः । सुराणां द्विपः सुरद्विपः, सुरद्विपस्य आस्फालनं सुरद्विपास्फालनम् , सुरद्विपास्फालनेन कर्कशा अङ्गुलयो यस्य सः सुर. द्विपास्फालनकर्कशाङ्गुलिः, तस्मिन् सुरद्विपारफालनकर्कशाङगुलौ। पत्रस्य विशेषकाणि पत्र. विशेषकाणि, शच्याः पत्रविशेषकाणि शचीपत्रविशेषकापि, शचीपत्र विशेषकः अंकितः शचीपत्रविशेषकाङ्कितः, तस्मिन् शचीपत्रविशेषकाङ्किते । स्वस्य नाम स्वनाम, स्वनाम्नः चिहं यस्य सः स्वनामचिह्नः, तं स्वनामचिह्नम् ।
अभि०--कार्तिकेयसमपराक्रमेण रघुणापि इन्द्रबाहुमध्ये स्वनामाङ्कितः बाणः निचख्ने ।
हिन्दी-कातिकेय के समान पराक्रमी रघु ने, ऐरावत हाथी के निरन्तर ताडन करते रहने से कठिन तथा इन्द्राणी की पत्र रचना से अङ्कित इन्द्र की भुजा में अपने नाम से अङ्कित बाण को गाड़ दिया ॥ ५५ ॥
जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥५६।। संजीविनी-अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनिध्वजं महान्तमशीनरूपं ध्वजं जहार चिच्छेद च । स शक्रः। सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोपणादवतारणाच्छेदनादिव । तस्मै रघवे भृशमत्यर्थ चुकोप । तं हन्तु मियेषेत्यर्थः । 'कुधदुहेासूयार्थानाम्' इत्यनेन संप्रदानाच्चतुर्थो। ___ अन्वयः-अन्येन, मयूरपत्रिणा, शरेण शक्रस्य महाशनिध्वजम् , जहार, च, सः, सुरश्रियः प्रसह्य, केशव्यपरोपणात्, इव, तस्मै, भृशम् , चुकोप।
वाच्य०-महाशनिध्वजः, जहे, तेन तस्मै, भृशम् , चुकुपे।
व्याख्या--अन्येन =अपरेण, शरेप = बाणेन । शक्रस्य = इन्द्रस्य । महान् चासौ अशनिः वज्रम् , इति महाशनिः, महाशनिरूपं ध्वजम् = वैजयन्ती, इति महाशनिध्वजम् , तत् । जहार = अहरत्। च = तथा । सः=इन्द्रः। सुराणाम् = देवानां, श्री लक्ष्मीः , इति सुरश्रीः, तस्याः