________________
तृतीयः सर्गः
४५
हिन्दी-रघु के स्तम्भ सदृश दृढ़ बाण के द्वारा हृदय विंध जाने के कारण इन्द्र को बहुत क्रोध हुआ और उसने भी नवीन मेघ समूह में क्षणमात्र के लिये शोभित होनेवाले अपने धनुष पर कभी व्यर्थ न जानेवाला बाण रक्खा ॥ ५३ ॥
दिवीपसूनोः स वृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ ५४ ॥
संजीविनी-भीमानां भयंकराणाममुराणां शोणिते रुधिर उचितः परिचित: स इन्द्रमुक्त बाशुगः सायको दिलीपसूनोः रघोहद्विशालं भुजान्तरं वक्षः प्रविश्य । अनास्वादितपूर्व पूर्वमनास्वादितम् , सुप्सुपेति समासः, मनुष्यशोणितं कुतूहलेनेव पपौ ।। ५४ ॥
वाच्य०-भीमासुरशोणितोचितेन तेन आशुगेन कुतूहलेन इव पपे ।
व्याख्या-भीमाः = भयङ्कराश्च ते असुराः= दैत्याः इति मीमासुराः, तेषां शोणितम् = रविरम् इति भीमासुरशोणितम् , भीमासुरशोणिते चितः = योग्यः, इति मोमासुरशोणितोचितः। सा=इन्द्रधनुर्मुक्तः । आशु%Dशीघ्रं गच्छतीति आशुगः= बाणः । दिलीपस्य = तदाख्यनृपस्य, सूनुः-पुत्र इति दिलीपसूनुः तस्य दिलीपसूनोः । बृहद् = विशालम् , भुजयोः = बाहोः "भुजबाहू प्रवेष्टो दोः" इत्यमरः। अन्तरं = मध्यभागम् इति भुजान्तरम् , तत् वक्षः इत्यर्थः, प्रविश्य = प्रवेशं कृत्वा न आस्वादितम् इति अनास्वादितम् , पूर्वम् अनास्त्रादितम् इति अनास्वादितपूर्वम् = पूर्वमनास्वादितम् । मनुष्यस्य = मनुजस्य, शोणितम् = रुधिरम् इति मनुष्यशोणितं तत् । कुतूहलेन = कौतुकेन । इव = यथा । पपौ= अपिबत् ।
समा०-भीमाश्च ते असुराश्च भीमासुराः, भोमासुराणां शोणितं मीमासुरशोणितम् , भीमासुरशोणिते उचितः भीमासुरशोणितोचितः। आशु गच्छतीत्याशुगः । दिलीपस्य सूनुः दिलीपसूनुः तस्य दिलीपसूनोः। भुजयोरन्तरं भुजान्तरम् , तत् भुजान्तरम् । पूर्वम् न आस्वादितं अनास्वादितपूर्वम् , तत् । मनुष्यस्य शोणितम् मनुष्यशोषितम् , तत् मनुष्यशोणितम् ।
अभि०-इन्द्रमुक्तो बाणः यः केवलं मयंकरदैत्यरुधिरपानयोग्य आसीत् रवोः हृदयं प्रविष्टः सन् मनुष्यरुधिरपानासक्त इव जातः ।
हिन्दी-इन्द्र के धनुष से छूटा हुआ बाण जो कि केवल दैत्यरक्तपान का हो अभ्यासी या, रघु के हृदय में घुसकर पहले कभी न चखे हुए मनुष्य के रकों का पान बड़े चाव से करने लगा ।। ५४ ।।
हरेः कुमारोऽपि कुमारविक्रमः सुर द्वपास्फालनकर्कशाङ्गलौ ।
भुरेशचीपत्रविशेषकाङ्किते स्वनामचिह्न निचखान सायकम् ॥५५।। सञ्जीविनी कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः। 'सप्तम्युपमान' इत्यादिना समासः । कुमारोऽपि रघुरपि सुरद्विपस्येरावतस्थास्फालनेन कर्कशा अंगुलयो यस्य स तस्मिन् शच्याः पत्रविशेषकरङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य भुजे स्वनामचिह्नं स्वनामाकितं सायकं निचखान निखातवान् । निष्कण्टकराज्यमाप्तस्यायं महानमिभव इति भावः ॥५५॥