________________
४१
रघुवंशमहाकाव्ये
समा०--उद्गतं मुखं यस्य सः उन्मुखः । शरस्य आसनं शरासनम् , तत् शरासनम् । शरेष सह वर्तते इति सशरम्, तत् सशरम् । आलोढेन विशेषं शोभितुं शोलमस्येति आलोढविशेषशोभी, तेन आलीढविशेषशोभिना। वपुषः प्रकर्षः वपुःप्रकर्षः, तेन वपुःप्रकर्षण । विडम्बितः ईश्वरः येन सः विडम्बितेश्वरः ।
अमि०-रघुरेवमिन्द्रमुक्त्वा बाणं धनुषा संयोज्य दक्षिणं चरणमग्रत आकुन्च्य वामं च पश्चाविस्तार्य युद्धोन्मुखस्तथा स्थितो यथा त्रिपुरदाहोद्यतः शम्भुरासीत् ।
हिन्दी-इन्द्र से इस प्रकार कहकर रघु धनुष पर बाण चढ़ाते हुए मालोढ नामक स्थानभेद से खड़े हुए अर्थात् दायाँ पैर आगे को झुकाकर तथा बायाँ पैर पोछे की ओर तानकर ऐसे सुशोभित हुए जैसे त्रिपुरदाह के समय मगवान् शङ्कर ॥ ५२ ॥
रघोरवष्टम्ममयेन पत्रिणा हृदि क्षतो गोत्रमिदप्यमर्षणः । नवाम्बुदानीकमुहूर्तलाग्छने धनुष्यमो समधत सायकम् ॥ ५३ ॥
सओविनी-रघोरवष्टम्भमयेन स्तम्भरूपेण । 'अवष्टम्मे सुवणे च स्तम्भप्रारम्मयोरपि' इति विश्वः । पत्रिणा बाणेन हृदि हृदये क्षतो विद्धः । अत एवामर्षणोऽसहनः क्रुद्धः इत्यर्थः, गोत्रमिदिन्द्रोऽपि । 'संभावनीये चौरेऽपि गोत्रः क्षोणीधरे मतः' इति विश्वः। नवाम्बुदानामनाकस्य वृन्दस्य मुहूर्त क्षणमात्रं झाछने चिह्नमूते धनुषि, दिव्ये धनुषोत्यर्थः । अमोघमवन्ध्यं सायकं बाणं समधत्त संहितवान् ।
अन्वयः-रघोः, अवष्टम्ममयेन, पत्रिणा, हृदि, क्षतः, 'अतएव', गोत्रमित्, अपि, नवाम्बुदानीकमुहूर्तलाग्छने, धनुषि, अमोघम् , सायकम् , समधत्त ।
वाच्य०-क्षतेन, 'अत एव' अमर्षणेज, गोत्रभिदा, अपि, अमोघः सायकः समधीयत ।
व्याख्या--रघोः = दिलीपपुत्रस्य । प्राचुर्येणावष्टम्भो यत्रत्यवष्टम्ममयः स्तम्भरूपः तेन तथोक्तेन, पत्रिणा = बाणेन । हृदि = हृदये। क्षतः विद्धः। अतएव, न मषितुं शीलमस्य इति अमर्षणः= क्रोधवान् । गा पृथ्वी त्रायन्ते रक्षन्ति इति गोत्राः पर्वताः, तान् भिनत्तीति गोत्रभित् = इन्द्रः । अपि । अम्बूनि = जलानि, ददति = यच्छन्तीति अम्बुदाः मेघाः, नया नूतनाश्च ते अम्बुदा इति नवाम्बुदाः, तेषाम् अनीकं =सैन्यम् , इति नवाम्बुदानीकं, तस्य मुहूर्त = क्षणमात्रम् , यत् लांछनम् = चिह्नम् इति मुहुर्तलांछनम् , तस्मिन् । धनुषि-शरासने, अमोषम् सफलम । सायकम् =शरम् । समधत्त=सन्दधे ।
समा०-पचुरः अवष्टम्भः यस्मिन् सः अवष्टम्ममयः, तेन अवष्टम्ममयेन । अम्बु ददतीति अम्बुदाः, नवाश्च ते अम्बुदाच नवाम्बुदाः, नवाम्बुदानामनीकं • नवाम्बुदानोकम् , नवाम्बुदानीकस्य मुहूर्त लांच्छनं नवाम्बुदानीकमुहूर्तलांछनम् , तस्मिन् नवाम्बुदानीकमुहूर्तलांछने । न मोघः अमोघः, तं अमोघम् ।
अभि०-रघोः स्तम्भरूपेण बाणेन हृदये विद्धः शक्रोऽतिक्रुद्धो भूत्वा नवजलधरक्षणमात्रशोभिते स्वधनुषि सफलं वाणं संयोजितवान् ।