________________
तृतीयः सर्गः वाध्य०-रक्षित्रा अपमयेन "सता" पुरन्दरः बभाषे। यदि, एतेन, ते, सर्गेण "भूयते" 'तहिं त्वया शस्त्रम् गृह्यताम् । भवता कृतिना न भूयते खलु ।।
व्याख्या०-ततः = तदनन्तरम् , तुरगस्य= अश्वस्य, रक्षतीति रक्षिता=पालकः, रघुः। प्रहस्य-प्रहासं कृत्वा। अपगतं भयं यस्मादित्यपभयः = निर्भयः 'सन्' । पुनः= भूयः । पुरं दारयतीति पुरन्दरः = इन्द्र, तं पुरन्दरं । बभाषे=ऊचे। यदि = चेत् , एषः = अयम् अश्वमोचनरूप इत्यर्थः । ते=तव, सर्गः= निश्चयः । 'तहिं' शस्त्रम् = श्रायुधम् , गृहाण = स्वीकुरु । भवान् = त्वम् , इन्द्र इत्यर्थः। रघुम् = दिलीपपुत्रम् मामित्यर्थः । अनिर्जित्य =अजित्वा । कृतमनेनेति कृती कृतकृत्यः, ननहि खलु इति निश्चये।
समा०-अपगतं भयं यस्मात्सः अपभयः । कृतमस्यास्तीति कृती।
अभि०-ततः रघुः प्रहस्याकथयत् , यत् हे इन्द्र ! यदि तेऽश्वमोचनाभावे निश्चयः तहिं मया सह संग्रामं कुरुष्व, यतो यावत्त्वं मां न जेष्यसि तावदश्वनयने कुतस्ते शक्तिः।
हिन्दी-तब घोड़े के रक्षक रघु ने हँसकर कहा कि हे इन्द्र ! यदि तुम्हारा घोड़े को न छोड़ने का ही निश्चय है तो शस्त्र हाथ में उठाओ, क्योंकि जब तक तुम मुझे नहीं जीत लेते तब तक घोड़ा कैसे ले जा सकते हो ? ॥५१॥
स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् । अतिष्ठदालीढविशेषशोमिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ ५२ ॥ संजीविनी-स रधुरुन्मुखः सन् । मघवन्तमिन्द्र मेवमुक्त्वा शरासनं चापं सशरं करिष्यमाणः। आलीनालीढाख्येन स्थानभेदेन विशेषशोभिनातिशयशोभिना वपुःप्रकर्षण देहौन्नत्येन विडम्बितेश्वरोऽनुसृतपिनाकी सन् अतिष्ठत् स्थितवान् । आलोढलक्षणमाह यादव:"स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृति ॥ अन्वयें स्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुश्चय प्रत्यालीढविपर्ययः ॥" इति ॥ ५२ ॥
अन्वयः-सः, उन्मुखः 'सन्' मघवन्तम् , एवम् , उक्त्वा , शरासनम् , सशरम् , करिष्यमाणः, आलीढविशेषशोभिना, वपुःप्रकर्षण, विडम्बितेश्वरः 'सन्', अतिष्ठत् ।
वाच्य०-तेन उन्मुखेन 'सता', करिष्यमाणेन विडम्बितेश्वरेण 'सता' अस्थीयत ।
व्याख्या-सः रघुः । उद्गतं मुखं यस्य स उन्मुखः= ऊन्वोकृताननः, 'सन्' । मघवान् = इन्द्रः, तं मघवन्तम् । एवम् = इत्थम् , पूर्वोक्तप्रकारेण । उक्त्वा=कथयित्वा । शरोऽस्यते क्षिप्यतेऽनेनेति शरासनः=धनुः, तम् । शरेण = बाणेन सहित इति सशरः, तम् सशरम् = बाणयुक्तमित्यर्थः। करिष्यतीति करिष्यमाणः=विधास्यमानः । विशेपेण शोभितुं शीलभस्येति विशेषशोभी, आलीडेन = तदाख्यस्थानभेदेन, विशेषशोभी= शोभातिशयशाली इति आलोढविशेषशोभी, तेन तथोक्तेन । वपुषः= देहस्य, प्रकर्षः= औन्नत्यम् इति वपुःप्रकर्षः, तेन। विडम्बितः = अनुकृतः, ईश्वरः=पिनाकी येन स विडम्बितेश्वरः, 'सन्' भतिष्ठत् = तस्थौ।