SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ४७ सुरश्रियः । प्रसह्य = हठात् । केशाना=बालानाम् व्यपरोपणम् = छेदनम् इति केशव्यपरोपणं, तस्मात् । 'कुन्तलो बालः कचः केशः शिरोरुहः' इत्यमरः । इव = यथा । तस्मै रघवे। भृशम् = अत्यन्तम् । चुकोप = कोपं कृतवान् ।। समा०--मयूरस्य पत्रं मयूरपत्रम् मयुरपत्रमस्यास्तीति मयूरपत्री. तेन मयूरपत्रिणा। महाश्चासौ अशनिश्च महाशनिः, महाशनिरेव ध्वजम् महाशनिध्वजम् . तत् महाशनिध्वजम् सुराणां श्रीः सुरश्रीः, तस्याः सुरश्रियः । केशानां व्यपरोपणं केशव्यपरोपणम् , तस्मात् केशव्यपरोपणात् । अभि०-घः अपरेण बाणेन, इन्द्रस्य ध्वज चिच्छेद । तेन चेन्द्रः तस्मै एवं चुकोप यथा तस्य देवलक्ष्म्याः केशावतारणं केनचित् कृतं भवेत् । हिन्दी-रघु ने दूसरे बाण से इन्द्र की ध्वजा काट डाली, जिससे इन्द्र को इतना कोध हुआ कि मानो उसकी राज्यलक्ष्मी के सिर के बाल कोई जबर्दस्ती उतार लिया हो ॥५६॥ तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषमीमदर्शनैः। बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिमिः ॥५७॥ संजोविनी-जयैषिणोरन्योन्यजयाकांक्षिणोस्तयोरिन्द्ररध्वोः। गरुत्मन्तः पक्षवन्तः । 'गरुत्पक्षच्छदाः वत्रम्' इत्यमरः। आशीविषा दंष्ट्रायां विषं येषां ते आशीविषाः सर्पाः । पृषोदरादित्वात्साधुः । 'स्त्री त्वाशीहिताशंसाऽहिदंष्ट्रयोः' इत्यमरः । त इव भीमदर्शनाः । सपक्षाः सर्पा इव द्रष्टणां भयावहा इत्यर्थः । तैरधोमुखेरूर्ध्वमुखैश्च । धन्विनोरुपर्योदेशावस्थितत्वादिति मावः, पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्वा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिस्तत्तथोक्तं तुमुलं संकुलं युद्धं बभूव । अन्वयः-जयैषिणोः, तयोः, गरुत्मदाशीविषमीमदर्शनैः, अधोमुखैः ऊर्ध्वमुखेः च पत्रिमिः, उपान्तस्थितसिद्धसैनिकम् , तुमुलम् , युद्धम् , बभूव । वाच्य०-उपान्तस्थितसिद्धसैनिकेन, तुमुलेन, युद्धन, बभूवे । व्याख्या-ज्यं = विजयम् , इच्छतः=अमिलषतः इति जयैषिणौ, तयोः जयैषिणोः। तयो: रविन्द्रयोः। गरुतः = पक्षाः सन्ति येषां ते गरुत्मन्तः, आशिषि =दंष्ट्रायां विषम् = गरलम् , येषां ते आशीविषाः सर्पा इत्यर्थः, गरुमन्तश्च ते आशीविषाः इति गरुत्मदाशीविषाः । भीमम् =भयङ्करम् , दर्शनम् =अवलोकनम् येषां ते भीमदर्शनाः, गरुत्मदाशीविषा इव भीमदर्शना इति तैस्तथोक्तः । अध:= नोचैः मुखम् = आननम् येषां ते अधोमुखाः, तैः अधोमुखैः। ऊर्ध्वम् = उपरि, मुखम् = अननम् येषां ते ऊर्ध्वमुखाः, तैः ऊर्ध्वमुखैः । च = तथा । पत्रिभिः= बाणेः। अन्तस्य-अवसानस्य समीपम् = पाश्वम् इति उपान्तम् . उपान्ते स्थिताः-वर्तमानाः इति उपान्तस्थिताः । तादृशाः सिद्धाः = देवयोनिविशेषाः, सैनिकाः=सेनापुरुषाः यस्मिंस्तत्तथोक्तम् उपान्तस्थितसिद्धसैनिकम् । तुमुलम् = भयङ्करम् । युद्धम् =जन्यम् । बभूव = अभूत् । समा-जयमेषितुं शीलमनयोरिति जयैषिणो, तयोः जयैषिणोः। गरुतः एषां सन्तीति गरुत्मन्तः, गरुत्मन्तश्च ते आशीविषाश्च गरुत्मदाशीविषाः, गरुत्मदाशीविषा इव भीमं दर्शनं येषां
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy