________________
तृतीयः सर्गः →वाच्य०- या प्रचीयमानावयवया, सन्नद्धमनोशपल्लवया, लतया इव रेजे।
व्याख्या-सा=सुदक्षिणा। क्रमेण = क्रमशः। दोहदेन = गर्भिणीमनोरथेन, व्यथा दुःखं तां दोहदव्यथां, निस्तीर्य = अतिक्रम्य । प्रचीयन्त इति प्रचीयमानाः, प्रचीयमानाःपुष्यमाणाः, अवयवाः = हस्तपादादयो यस्याः सा प्रचीयमानावयवा "सती" । पुराणानि= प्राचीनानि, च तानि पत्राणि = पर्णानि, तेषाम् , अपगमः नाशस्तस्मात् , पुराणपत्रापगमात् 'पत्रं पलाशं छदनं दलं पर्णम्' इत्यमरः । सन्नद्धाःसाताः मनोशाः-मनोहराः, पल्लवाः = किसलयाः यस्याः सा सन्नद्धमनोशपल्लवा, “पल्लवोऽस्त्री किसलयम्" इत्यमरः ! लतावल्ली, “वल्ली तु व्रततिर्लता" इत्यमरः । इव = यथा, रराज = शुशुमे ।
समा०—दोहदस्य व्यथा दोहदव्यथा, तां दोहदव्यथाम् । प्रचीयमानाः अवयवाः यस्याः सा प्रचीयमानावयवा । पुराणानि च तानि पत्राणि च पुराणपत्राणि, पुराणपत्राणाम् अपगमः पुराणपत्रापगमः, तस्मात् पुराणपत्रापगमात् । न विद्यते अन्तरं यस्य तत् अनन्तरम् , सन्नद्धाः मनोशाः पल्लवाः यस्याः सा सन्नद्धभनोशपल्लवा ।
अभि०-सा सुदक्षिणा क्रमशः गर्भिणीमनोरथदुःस्वभावतामतिक्रम्य पुरातनपत्रविनाशानन्तरं संजातनूतनपल्लवा लतेव पूर्णमनोरथतया पुष्यमाणावयवा सती शुशमे ।
हिन्दी-धीरे धीरे गर्भ का प्रारम्भिक कष्ट बीत जाने पर रानी सुदक्षिणा वैसे ही हृष्ट-पुष्ट और सुन्दर लगने लगी जैसे वसन्त ऋतु में लता पुराने पत्ते गिरा कर नये कोमल पत्तों से लदकर सुशोभित होती है ॥७॥
दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् । तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम् ॥॥
सब्जीविनी–दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थूलम् । आ समन्तान्नीले मुखे चूचुके यस्य तत् । तदीयं स्तनद्वयम् । भ्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः पङ्कजकोशयोः पद्ममुकुलयोः श्रियं तिरश्चकार । अत्र वाग्भटः-'अम्लेष्टता स्तनौ पोनौ श्वेतान्तौ कृष्णचूचुकौ” इति ॥ ८ ॥
अन्वयः-दिनेषु गच्छत्सु "सत्सु" नितान्तपीवरम् , आनीलमुख तदीयं स्तनद्वयम् , भ्रमरामिलीनयोः, सुजातयोः पङ्कजकोशयोः श्रियं तिरश्चकार ।
वाच्य०-नितान्तपीवरेणानीलमुखेन तदीयेन स्तनद्वयेन श्रीः तिरश्चके । व्याख्या-दिनेपु दिवसेषु दोहद दिवसेष्वित्यर्थः । गच्छत्सु = ब्रजत्सु, सत्सु । नितान्तम् =अत्यन्तं पोवरं - स्थूल मिति नितान्तपीवरम् । आसमन्तात् नाले =कृष्णे, मुझे चूचुके यस्य तत आनीलमुखं । तस्याः सुदक्षिणाया इदं तदीयं । स्तनयोः=कुचयोः, द्वयं द्वितयमिति स्तनद्वयम् । भ्रमरैः = द्विरेफैः, अभिलीनौ = व्याप्ती, तयोः, भ्रमराभिलीनयोः, सुष्ठु जातौ सुजातौ तयोः सुजातयोः सुन्दरयोः। पङ्के जाते पङ्कजे, पङ्कजयोः कमलयोः कोशो- मुकुलो, तयोः पङ्कजकोशयोः । श्रियंशोभा । तिरश्चकार =अधरीचकार ।