________________
रघुवंशमहाकाव्ये
समा०-नितान्तं पीवरं नितान्तपीवरम् । तस्या इदं तदीयम् । आनीलं मुखं यस्य तत् आनीलमुखम् । स्तनयोयम् । भ्रमरैः अभिलीनौ भ्रमराभिलीनी, तयोः भ्रमराभिलीनयोः । पङ्के नाते पङ्कजे, पंकनयोः कोशौ पंकजकोशी, तयोः पंकजकोशयोः ।
अभि०-भ्रमरसंयोगात् कमलमुकुठयोः यादृशी शोभा भवति अस्याः सुदक्षिणाया अत्यन्तस्थूलयोः स्तनयोरपि कृष्णवर्णचूचकतया तादृश्येव शोभाऽऽप्लोत् ।
हिन्दी-थोड़े दिनों में सुदक्षिणा के बड़े बड़े स्तनों को बुण्टियाँ काली पड़ गई, इससे रानी के स्तन ऐसे सुन्दर लगने लगे जिनकी शोभा के सामने वे कमल की कलियाँ भी फीकी पड़ जाती थी जिनपर भौंरे बैठे हो ॥८॥
निधानगर्भा मव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् । नदीमिवान्तःसलिलां सरस्वती नृपः ससत्वां महिषीममन्यत ।।५।।
साविनी-नृपः ससत्वामापन्नसत्वाम् । गमिणोमित्यर्थः। 'आपन्नसत्वा स्याद्गुवि. ण्यन्तर्वत्नी च गर्भिणी' इत्यमरः । महिषी सुदक्षिणान् । निधानं निधिर्ग) यस्यास्तां सागराम्बरा समुद्रवसनाम् : भूमिमिवेत्यर्थः । 'भूतधात्री रत्नगर्भा जगती सागराम्बरा' इति कोशः । अभ्यन्तरे लीनः पावको यस्याम्तां शमीमिद । शमीतरी वह्निरस्तीत्यत्र लिङ्ग शमोगादग्नि जनयतीति याशिकाः । अन्तःसलिलामन्तर्गतजलां सरस्वती नदीमिव । अमन्यत । एतेन गर्मस्य भाग्यवत्वतेजस्वित्वपावनत्वानि विवक्षितानि ।। ९॥
अन्धयः-नृपः ससस्वां, महिषीं, निधानगर्मा, सागराम्बरामिब, अभ्यन्सरलीनपावका, शमीम इव, अन्तःसलिलां सरस्वतीम् , नदीम् इव, अमन्यत ।
वाच्य-नृपेण, ससत्वा, महिषो, निधानगमा सागराम्बरा इव, अभ्यन्तरलीनपात्रका शमी इव, अन्तःसलिला सरस्वती नदी इव अमन्यत ।
व्याख्या-नृपः-राजा दिलीपः । सत्वेन = प्राणिना, सहिता ससत्वा, तां ससत्त्वां= गर्भिणीमित्यर्थः । महिषी = कृताभिषेका, सुदक्षिणामित्यर्थः । निधानं = निधिः, गर्भ = अभ्यन्तरे यस्याः सा, ता निधानगर्भाम् । सागरः-समुद्रः, एव, अम्बरम् = वस्त्रं यस्याः सा, तां सागराम्बराम् , इव = यथा, भूमिभिवेत्यर्थः। अभ्यन्तरे = मध्ये, लीनः = निगूढः, पात्रकः = वह्निः यस्याः सा ताम् , अभ्यन्तरलोनपावकां। शमी=शिवा=वृक्षविशेषमित्यर्थः, इव = यथा अन्तः मध्ये, सलिलं = जलं यस्याः सा तामन्तःसलिलां। सरोऽस्याः अस्तीति सरस्वती तां सरस्वती =नदीम् , इव == यथा, अमन्यत - अमंस्त-मेने इत्यर्थः। ___ समा०--नन् पातीति नृपः । सत्तेन सह वर्तते इति ससत्त्वा, तां ससत्त्वाम् । निधानं गर्भ यस्याः सा निधानगर्भा; तां निधानगर्भाम् । सागर एव अम्बरं यस्याः सा सागराम्बरा, तां सागराम्बराम् । अन्यन्तरे लीनः पावकः यस्याः सा अभ्यन्तरलीनपावका, ताम् अभ्यन्तरलोनपावकाम् । अन्तः सलिलं यस्याः सा अन्तःसलिला, ताम् अन्तःसलिलाम् । सरांसि सन्त्यस्याम् इति सरस्वती, तां सरस्वतीम् ।