________________
रघुवंश महाकाव्ये
अधिज्यधन्वन इति । नहि वीरपत्नीनामलभ्यं नाम किंचिदस्तीति भावः । अत्र वाग्भटः-"पादशोफो विदाहोऽन्ते श्रद्धा च विविधात्मिका” इति । एतच्च पत्नी मनोरथपूरणाकरये दृष्टदोषसंभवात् । न तु राज्ञः प्रोतिलौल्यात् । तदुक्तम् — “देयमप्यहितं तस्यै हिताय हितमल्पकम् । श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा ॥" अन्यत्र च - 'दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्' इति ॥ ६ ॥
अन्वयः --- सा, दोहददुःखशीलताम्, उपेत्य यद्, ब्रे, तद्, आहृतम् अपश्यत्, एव, हि, अधिज्यधन्वनः, अस्य, भूपतेः, त्रिदिवे, अपि इष्टम्, अनासाद्यं, न, अभूत् ।
दाव्य० - तया श्रदृश्यत श्ष्टेन अनासाद्येन नाभावि ।
व्याख्या०-- सा = सुदक्षिणा । दुःखशीलाया भावो दुःखशीलता, दोहमाकर्ष ददाति तत् दोहदं, तेन दोहन = गर्भिणोमनोरथेन दुःखशीलता = दुःखस्वभावता, तो दोहद दुःखशीलताम् । उपेत्य = प्राप्य । यद् = किमपि वस्तु, वत्रे = भाचकांक्षे, तद् = आकांक्षितं वस्तु, आहृतम् = आनीतम् अपश्यत् = अवलोकितवती, एव इत्यधारणे । अलभतेत्यर्थः । " कुतः " हि = यस्मात् । अधिज्यम् = श्रारोपितमौत्रक, धनुः चापं यस्य सः, तस्य श्रधिज्यधन्वनः अस्य = एतस्य, भूपतेः = राशो दिलीपस्य । त्रिदिवे = स्वर्गे, अपि इष्टम् = अभिलषितं, वस्तु, न आसाद्यम् अनासाद्यम् = अप्राप्यं, न = नहि, अभूत् = आसीत् ।
"
1
समा० - दुःखं शीलं यस्याः सा दुःखशीला, दोहदेन दुःखशीला, दोहददुःखशीला, दोहददुःखशीलायाः मात्रः दोहददुःखशीलता, तां दोहददुःखशीलताम् | अघि ज्या यस्य तत् अधिज्यम् अधिज्यं धनुः यस्य सः अधिज्यधन्त्रा, तस्य अधिज्यधन्वनः । भुवः पतिः भूपतिः, तस्य भूपतेः । आसादयितुं योग्यं आसाद्यम्, न आसाद्यम् अनासाद्यम् ।
अभि० – गर्भावस्थायां सुदक्षिणा यत् किमपि वस्तु, अभिलषति स्म तत् सर्वं सुदक्षिणायाः सखीमुखात् ज्ञात्वा स्वर्गस्थमपि वस्तु राजा दिलीप: स्वप्रतापादानीय तरपुर: स्थापितवान् । हिन्दी- - वह सुदक्षिणा गर्भावस्था के कष्टों को सहती हुई जो जो वस्तु चाहती थी, वह वस्तु उसी समय रानी को मिल जाती थी, क्योंकि धनुषधारी राजा दिलीप अपने पराक्रम से स्वर्ग की वस्तु भी ला सकते थे, फिर इस लोक की तो बात ही क्या ॥ ६ ॥
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा । पुराणपत्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लवा ॥ ७ ॥ सञ्जीवनी-सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तोर्य प्रचीयमानावयवा पुष्यमाणावयवा सती । पुराणपत्राणामपगमान्नाशादनन्तरं सन्नद्धाः संजाताः प्रत्यग्रत्वान्मनोज्ञाः पल्लवा यस्याः सा लतेव रराज ॥ ७ ॥
अन्वयः -- सा, सुदक्षिणा, क्रमेण, दोहदव्यर्था, निस्तीर्य, प्रचीयमानावयवा, "सती" पुराणपत्रापगमात्, अनन्तरं, सन्नद्धमनोज्ञपल्लवा, लता इव, रराज ।