________________
तृतीयः सर्गः न मे हिया शंसति किञ्चिदीप्सितं स्पृहावती वस्तुषु केषु मागधी। इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः ॥ ५ ॥
सजीविनी--मगधस्य राशोऽपत्यं स्त्री मागधी सुदक्षिणा । "द्वयमगधकलिङ्गसूरमसादण्" इत्यण्प्रत्ययः । हिया किंचिरिकमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे । केषु वस्तुषु स्पृहावतीत्यनुवेलमनुक्षप्पमादृत आदृतवान् । कर्तरि क्तः । 'आदृतौ सादराचितौ' इत्यमरः । प्रियायाः सखीः सहचरीरुत्तरकोसलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ । “लट स्मे" इत्यनेन भूतार्थे लट् । सखीनां विश्रम्भभूमित्वादिति भावः ॥५॥
अन्वयः--मागधी, हिया, किंचित् , ईप्सितं, मे, न शंसति, केषु, वस्तुषु, स्पृहावती, इति, अनुवेलम्, आहतः, प्रियासखीः उत्तरकोसलेश्वरः, पृच्छति, स्म ।
पारय-मागध्या शंस्थते, स्पृहावत्या "भूयते" प्रादृतेन, प्रियासख्यः, उत्तरकोसलेश्वरेण, पृच्छयन्ते स्म।
व्याख्या-मगधस्य राशोऽपत्यं स्त्रो मागधी=मगधराजसुता सुदक्षिणा । हिया - लज्जया। किश्चित् = किमपि, वस्तु, ईप्सितं = वाञ्छितं, मे = मधम् , न- नहि, शंसति= कथयति । केषु वस्तुषु-केषु पदार्थेषु, स्पृहावतो=इच्छावती। इतिः एवं प्रकारेण, वेलायामित्यनुवेलम् वारं वारम् , आदृतः = आइतवान् , सादरमित्यर्थः, “सन्" । प्रियायाः सुदक्षिणायाः । सख्यः =सहचस्पस्वाः, प्रियासखीः सुदक्षिणायाः वयस्याः । उत्तरे च ते कोसलाः उत्तरकोसलाः, तेषामीश्वरः उत्तरकोसलेश्वरः राजा दिलीपः । पृच्छति स्म = पृष्टवान् ।
समा०–मगधस्य राशोऽपत्यं स्त्री मागधी। ईप्सा अस्य राजाता इति ईप्सितम् , तत् ईप्सितम् । स्पृहा अस्या अस्तीति स्पृहावतो। वेलायां बेलायामित्यनुवेलम् । प्रियायाः सख्यः प्रियासख्यः, ताः प्रियासखोः। उत्तरे च ते कोसलाश्च उत्तरकोसलाः उत्तरकोसलानाम् ईश्वरः उत्तरकोसलेश्वरः। ___ अभि०-सुदक्षिणा लज्जया मे किमपि स्वाभीष्टं न कथयति, अतः न जाने केषु केषु तस्या अभिलाष इति प्रतिक्षणं सुदक्षिणायाः सखीः सादरं राजा दिलीपः पृच्छति स्म ।
हन्दी-सुदक्षिणा लज्जा से अपनी इच्छा मुझ से नहीं कहती है, अतः किन-किन वस्तुओं को वह चाहती है इस बात को बार-बार सुदक्षिणा की सखियों से आदर पूर्वक कोसलाधिपति दिलीप पूछते थे ॥ ५ ॥
उपेत्य सा दोहददुःखशीलतां यदेव व्रवे तदपश्यदाहृतम् । न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाघमधिज्यधन्वनः ॥ ६ ॥
सीविनी-दोहदं गर्भिणीमनोरथः । 'दोहदं दौहृदं श्रद्धालालसं च समं स्मृतम्' इति हलायुधः। सा मुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलता दुःखस्त्रभावतामुपेत्य प्राप्य यद्वस्तु वने आचकांक्षे तदाहृतमानीतम् । भत्रेति शेषः । अपश्यदेव अलभतेत्यर्थः। कुतः ? हि यस्मादस्य भूपतेस्त्रिदिवेऽपि स्वर्गेऽपोष्टं वस्त्वनासाघमनवाप्यं नामूत् । किं याच्या नेत्याह