________________
द्वितीयः सर्गः
अन्वयः-सा, पस्विनी, सन्तानकामाय, राशे, तथा, इति, काम, प्रतिश्रुत्य, पुत्र ! मदोयं, पयः, पत्रपुटे, दुग्धा , उपभुव, इति, तम् , आदिदेश।
वाच्य-तया पयस्विन्या "वया" पय उपभुज्यतामिति स आदिदिशे। __व्याख्या-सा= पूर्वोक्ता, प्रशस्तं पयः =ोरमस्या अस्तीति पयस्विनी - प्रशस्तक्षीरवती गौः, सन्तानं कामयत इति सन्तानकामस्तस्मै सन्तानकामाय == पुत्राथिने, तस्मैराशे दिलीपाय, तथा = तेन प्रकारेण, यथेच्छति तथैव भवरिवति, काम्यते. इति कामः= बरस्तं कामं, पतिश्रुत्य = प्रतिज्ञाय, हे पुत्र ! वत्स ! ममेदं मदीयं = मदीयस्तननिःसृतं, पयः = दुग्धं पत्राणां = पर्णानां, पुटेः = पात्रे दुग्धा= दोहनं कृत्वा, उपमुक्ष्वपिब, इति तम् = दिलीपम् , आदिदेश = आदिष्टवती।
अभि०-सा धेनुः पुत्राथिने दिलोपाय तथास्तु, इति वरं दत्त्वा हे पुत्र ! मदीयं दुग्धं पर्णनिर्मितपाने दुग्ध्वा त्वं पिबेति, आज्ञापयामास ।
हिन्दी-उस प्रशस्त दूधवाली धेनु ने पुत्रार्थी राजा दिलीप को “तुम्हें पुत्रलाम हो" यह वर देकर, हे पुत्र ! मेरा दूध दोने में दुहकर पी लो-ऐसी आशा दी।। ६५ ।।
वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः ।
औधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्त्या इव रक्षितायाः ॥ ६६ ॥ सम्जीविनी-हे मातः ! वत्सस्य वत्सपोतस्य शेषम् । वरसपीतावशिष्टमित्यर्थः। होम एवार्थः। तस्य विधिरनुष्ठानम् । तस्य च शेषम् । होमावशिष्टमित्यर्थः। तव ऊसि भवमोधस्यं क्षोरम् शरीरा. वयवाच्च" इति यत् प्रत्ययः । रक्षिताया उाः षष्ठांशं षष्ठभागमिव । ऋषेरनुशामधिगम्य उपभोक्तुं पातुमिच्छामि ।। ६६ ॥
अन्वयः-मातः ! वस्तस्य, होमार्थविधेः, च, शेषं, तब, प्रौधस्य, रक्षितायाः उाः, षष्ठांशम् , इव, ऋषेः, अनुशाम् , अधिगम्य, उपमोक्तुम् , इच्छामि ।
वाच्यः--हे मातः ! उाः षष्टांश इव औषस्यं भोक्तुं मयेष्यते ।
व्याख्या-हे मानः != जननि, वत्सस्य = शकरकरेः, शेष = वत्सपोतावशेषं, होम:= हवनम् , एव अर्थः- प्रयो ननं तस्य विधिः = अनुष्ठानं तस्य होमार्थविधेश्च शेषं, तव भवत्याः, ऊधसि मवम् अधम्यं नदेवौधस्यं - दुग्धं, रक्षिनाया: = पालितायाः, उाः = पृथिव्याः, षष्ठांशं षष्ठभागमिव, ऋषेः = वशिष्ठ य, अनुशाम् = प्राताम् अधिगम्य = प्य, उपभोक्तुं = पातुम् इच्छामि = अभिलषामि ।
समा०-होम एव अर्थः होमार्थः, होमार्थस्य विधिः होमार्थः विधिः, तस्य होमार्थविधेः। ऊपसि मवम् ऊधस्यम् , ऊधस्यमेव औषस्यम् ,तत् औषस्यम् । षण्ण प्रणः षष्ठः,षष्ठश्वासावंशश्च षष्ठांशः, तम्।
अभि०-हे मातः ! वत्सपानावशिष्टं हवनावशिष्टञ्च ना दुग्धं रक्षिताया भूमेः षष्ठांश मत्र गुरोरनुशं प्राप्य, पातुमिच्छामि ।
हिन्दी-हे माँ, बछड़े के पोने से तथा अग्निहोत्र कर्म से बचने पर गुरु को आशा लेकर मैं तुम्हारा दूध उसी प्रकार ग्रहण करना चाहता हूँ, जिस प्रकार पृथ्वी की रक्षा करके उसमें उत्पन्न अन्नादि का छठा भाग प्रहण करता हूँ।। ६६ ।।