________________
५४
रखुवंशमहाकाव्ये इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रोततरा बभूव ।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ ६७ ॥ सम्जीविनी-इत्थमनेन प्रकारेण मितीशेन दिलोपेन विज्ञापिता वसिष्ठस्य धेनुः प्राततरा। पूर्व शुश्रूषया प्रीता संप्रत्यनया विज्ञापनया प्रोततरातिसंतुष्टा बभूव । तदन्त्रिता तेन दिलीपेनान्विता हैमव. ताद्धिमवरसंबन्धिनः कुक्षेणुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ।। ६७ ।।
अन्धयः-इत्थं, क्षितीशेन, विशापिता, वशिष्ठधेनुः, प्रीततरा, बभूव, तदन्त्रिता, हैमवतात् कुक्षेः, अश्रमेय, आश्रमं प्रत्याययौ च ।
वाच्य०--विज्ञापितया वशिष्ठधेन्वा प्रीतलरया बभूवे, तदन्वितयाऽश्रमः प्रत्यायये ।
व्याख्या-इस्थम् = अनेन प्रकारेण, क्षितीभेन = राज्ञा दिलीपेन, विज्ञापिता = निवेदिता, वशिष्ठ. धेनुः, नन्दिनो, अतिशयेन प्रीता, प्रोततरा= अतिसंतुष्टा, पूर्व तु प्रीता, इदानी प्रीततरा, इति भावः। बभूव = जाता, तेन=दिलीपेन, अन्विता- युक्ता सहिता, हैमवतात् = हिमालयसम्बन्धिनः, कुक्षेःगुहायाः सकाशात् , अश्रमेण = अप्रयासेन, आश्रमं = निजवासस्थानं, प्रत्याययौ = प्रत्याजगाम ।
समा०--क्षितेः ईशः क्षितीशः, तेन क्षितीशेन । वसिष्ठस्य धेनुः वसिष्ठधेनुः । अत्यन्तं प्रीता प्रोततरा । हिमवतः अयं हैमवतः, तस्मात् हैमवतात् । न श्रमः अश्रमः, तेन प्रश्रमेण ।
अमि०-इत्थं दिलीपेन निवेदिता नन्दिनी, पूर्व केवलं प्रीता, संप्रति तु अधिकतरं प्रसन्ना सती वशिष्ठाश्रमं प्रत्याजगाम ।
हिन्दी-इस प्रकार राजा के प्रार्थना करने पर वशिष्ठ जी को धेनु नन्दिनी अत्यन्त प्रसन्न होकर दिलीप सहित. हिमालय की गुफा से बिना थकावट के आश्रम को लौट आई ।। ६७ ।।
तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायें शशंस वाचा पुनरुक्तयेव ॥ ६८ ॥ सञ्जीविनी-प्रसन्नेन्दुरिव मुखं यस्य स नृपाणा गुरुदिलीपः प्रहर्षचिह्नमुंखरागादिभिरनुमितमहितं तस्या धेनोः प्रसादमनुग्रहं प्रहर्षचिढेरेव शातत्वात्पुनरुक्तयेव वाचा गुरवे निवेद्य विज्ञाप्य पश्चात्प्रियाय शशंस । कथितस्यैव कथनं पुनरुक्तिः । न चेह तदस्ति किंतु चिह्नः कथितप्रायत्वात्पुनरुक्तयेवास्थितयेत्युत्प्रेक्षा॥
अन्धयः-प्रसन्नेन्दुमुखः, नृपाणां गुरुः, प्रहर्षचिह्नानुमितं, तस्याः प्रसाद, पुनरुक्तया, इव, वाचा, गुरवे, निवेद्य, पश्चात् प्रियायें, शशंस ।
वाध्य०-प्रसन्नेन्दुमुखेन गुरुणा प्रहर्षचिह्नानु मितः प्रसादः शशसे ।
व्याख्या-प्रसन्नः= निर्मल श्वासो, इन्दुः= चन्द्र इति प्रसन्नेन्दुः, प्रसन्नेन्दुरिव, मुखम् = आननं यस्य सः, प्रसन्नेन्दुमुखः, नृपाणां = भूपालानां, गुरुः = श्रेष्ठः, दिलीपः, प्रहर्षस्य = आनन्दस्य, चिहानि=लक्षणानि तैरनुमितः = शातस्तं प्रहर्षचिह्नानुमितं, तस्याः= धेनोः, प्रसादम् =अनुग्रहम् , पुनरुक्तया= भयः कथितया, गुरुणा प्रहर्षचिह्नरेव शातत्वात् , वाचावचनेन, गुरवे वशिष्ठाय, निवेद्य = विशाप्य, “पश्चात्" प्रियाय = सुदक्षिणाये, शशंस कथयामास ।