________________
५२
रघुवशं महाकाव्ये
वृष्णीष्व = प्रार्थयस्व तथाहि मां = गाम्, केवलानाम् = रकेषाम् एके मुख्यान्यकेवलाः' इत्यमर:, पयसां = दुग्धानां प्रसूर्ति = कारणं, न = नहि, अहि विद्धि, किन्तु प्रसन्नां = मीतां मामिति शेषः, कामान् = मनोरथान्, दोग्धि = पूरयतीति कामदुध, तां कामदुधाम् अहि ।
अभि० - हे पुत्र ! अहं ते प्रसन्नास्मि अस्त्वं वरं प्रार्थय। अहं केवलानां दुग्धानामेव दात्री न, किन्तु प्रसन्ना सती सर्वमनोरथानां पूरयित्रो त जानीहि ।
हिन्दी - हे पुत्र ! गुरुजी में भक्ति और मुझपर अनुकम्पा रखने से मैं तुम पर प्रसन्न हूँ, वर मांगी, मुझे सिर्फ दूध हो देनेवाली गौ नत समझो, किन्तु प्रसन्न होने पर मैं सम्पूर्ण मनोरयों को सिद्ध करनेवाली हूँ ॥ ६३ ॥
ततः समानीय स मानितार्थी हस्तौं स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारमनन्तकीर्ति सुदक्षिणायां तनयं ययाचे ॥ ६४ ॥
सब्जीविनी -- ततो मानितार्थो । स्वहस्तार्जितो वीर इति शब्दो येन सः । एतेनास्य दातृखं दैन्यराहित्यं चाक्तम् । स राजा हस्ती नमनीय सन्धाय । अञ्जलिं बद्ध्वेत्ययः । वंशस्य कर्तारं प्रवर्तयितारम् । अत एत्र रघुकुलमिति प्रसिद्धिः । अनन्तकार्ति स्थिरयशमं तनयं पुत्रं सुदक्षिणायां ययाचे ॥ ६४ ॥
अन्वयः -- ततः मानितार्थी स्वहस्तः जितवोरशब्दः, सः, हस्ती, समानीय, वंशस्य, कर्तारम्, अनन्तकीर्ति, तनयं सुदक्षिणाय, ययाचे ।
वाच्य० - मानितार्थिना स्वहस्तांर्जितवीरशब्देन तेन वंशस्य कर्ताऽनन्तकीर्तिः तनयो वयाचे ।
व्याख्या । - ततः == अनन्तरं, मानिताः = सत्कृताः, अर्थिनः = याचकाः येन सः, मानितार्थी, स्वस्य = निजस्य, हस्तौ करी, ताभ्याम्, अजितः = प्राप्तः, लब्धः, वोरः = पराक्रमी, इति शब्दः = पदवी येन सः स्वहस्ताजितवीर शब्दः, सः = राजा, दिलीपः, हस्तौ == करो, समानीय = सम्पुटीकृत्य = मञ्जलिं बद्धवेत्यर्थः, वंशस्य = कुलस्य, कर्तारं = प्रवर्तयितारं, अनन्ता = स्थिरा, कीर्तिः = यशो यस्य सः अनन्तकीर्तिः तं तथोक्तम्, ननयं = पुत्रं सुदक्षिणार्या – स्वभार्यायां ययाचे = याचितवान् ।
समा० - अर्थन्त इत्यर्थिनः मानिना: अर्थिनः येन सः मानितार्थो । स्वस्थ हस्तः स्वहस्तः, वीर इति शब्दः वीरशब्दः, स्वहस्तेन अर्जितः वीरशब्दः येन सः स्वहस्ताजिनवीरशब्दः । न विद्यते अन्तः यस्याः सा अनन्ता, अनन्ता कीर्तिः यस्य सः अनन्तकीर्तिः तम् अनन्तकीर्तिम् ।
श्रभि०
० - ततः पराक्रमी सत्कृतार्थी दिलोपोऽञ्जलिं बद्ध्वा, कुलप्रवर्तकं यशस्विनं पुत्रं याचितवान् । हिन्दी - इसके पश्चात् याचकवर्ग को संतुष्ट करने वाले, अपने बाहुबल से वीर उवि को प्राप्त करनेवाले राजा ने हाथ जोड़कर वंश चलानेवाला यशस्वी पुत्र सुदक्षिणा से होने की प्रार्थना का ॥६४॥ सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ॥ ६५ ॥
|
सन्जीविनी - -सा पयस्विनी गौः । संतानं कामयत इति संतानांमः । 'कमु कान्तो' 'कर्मण्यण्" तस्मै राज्ञं तथेति तथास्त्विति । काम्यत इति कामो वरः । कामार्थे घन्प्रत्ययः । तं प्रतिश्रत्य प्रतिज्ञाय । हे पुत्र ! मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुङ्क्ष्व । ' उपयुङ्क्ष्व' इति वा पाठ: । 'पिज' इति तमादिदेशाज्ञापितवती ॥। ६५ ।।