________________
द्वितीयः सर्गः अमि०-सकल जगदुत्पत्तिस्थितिविनाशकारपं सः शिवः, मे पूज्यो वर्तते, तथापि गुरोरपि विनश्यदिदं गोरूपधनं सर्वथा पालनीयं वर्तते ।
हिन्दी-समस्त विश्व की उत्पत्ति, पालन तथा प्रलय के कारणभूत वह भगवान् शिव मेरे पूजनीय हैं। अर्थात् उनकी आशा सर्वथा माननीय हैं। किन्तु सामने नष्ट होता हुआ अग्निहोत्री गुरु महाराज वशिष्ठ का यह नन्दिनो रूप धन भी उपेक्षा करने के योग्य नहीं है। इसकी रक्षा करना मी परमावश्यक है ॥ ४४ ॥
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥ ४५ ॥ सजीविनी-सोऽङ्कागतसत्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निवर्तयितुं संपादयितुं प्रसौद । दिनावसान उत्सुको माता समागमिष्यतीत्युत्कण्ठितो बालश्चासौ वत्सो यस्याः सा महर्षेरियं धेनुविसृज्यताम् ॥ ४५ ॥ __ अन्वयः-स, त्वं, मदीयेन, देहेन, शरीरवृत्ति, निवर्तयितुं प्रसीद, दिनावसानोत्सुकबालवत्सा, महर्षेः, इयं, धेनुः, विसृज्यताम् ।
वाच्य०-तेन त्वया मदीयेन देहेन शरीरवृत्ति निर्वर्तयितुं प्रसद्यता, महरिमां धेनुं विसृज।
व्याख्या-सः=समीपागतप्राणिवृत्तिः, त्वं = सिंहः, भम अयं मदोयः, तेन, मदीयेनमत्सम्बन्धिना, देहेन= शरीरेण, शरीरस्य = देहस्य वृत्तिः = जीवनं तां, निर्वर्तयितुं =सम्पादयितुं कर्तुमित्यर्थः, प्रसीद = प्रसन्नो भव । दिनस्य = दिवसस्य, अवसानम् = अन्तः, तस्मिन् , उत्सुकःउत्कण्ठितः, बालश्चातौ वत्सः= शकृत्करियस्याः सा तथोक्ता, महर्षेः = वशिष्ठस्य, इयम् एषा, घेनुः = नन्दिनी, विसृज्यताम् = त्यज्यताम् ।
समा०-मम अयं मदोयः, देन मदीयेन । शरीरस्य वृत्तिः शरीरवृत्तिः, तां शरीरवृत्तिम् । दिनस्य अवसानं दिनावसानम् , दिनावसाने उत्सुकः बालः वत्सः यस्याः सा दिनावसानोत्सुकबालवत्सा। महाश्चासौ ऋषिश्च महर्षिः, तस्य महर्षेः।
अभि०-हे सिंह ! त्वं मम देहेन स्वबुभुक्षाशान्ति कृत्वा मयि प्रसन्नो भव, इमां महर्षेः धेनुं मुश्श, यतः, आश्रमे बद्धोऽस्याः बालवत्सः माता मे समागमिष्यतीत्युत्कण्ठितो बुभुक्षित आस्ते ।
हिन्दी-समीपागत प्राणियों पर जीवन यापन करनेवाले तुम मेरे शरीर से अपना भोजन करने को कृपा करो, ( अर्थात् धेनु के बदले मुझे खा लो ) और सायंकाल "मेरी माँ आती होगी" ऐसे उत्कण्ठित छोटे बच्चे वाली, महर्षि वशिष्ठ की इस गौ को छोड़ दो ॥ ४५ ॥
अथान्धकारं गिरिगह्वराणां दष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किश्चिद्विहस्यार्थपति बमाणे ॥ ४६ ॥ सीविनी-अथ राजोक्त्यनन्तरम् । भृतेश्वरस्य पाववर्त्यनुचरः स सिंहो गिरेगहराणी गुहानाम् । 'देवखातविले गुहा । गह्वरम्' इत्यमरः । अंधकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन् । निरस्यन्नित्यर्थः। किंचिद्विहस्यार्थपति नृपं भूयो बमाषे। हासकारणम् 'अल्पस्य हेतोबहु हातुमिच्छन्'
त वक्ष्यमाणं द्रष्टव्यम् ॥ ४६ ॥