________________
रघुवंशमहाकाव्ये
हास्यं = परिहासयोग्यम् , अस्तीति शेषः, यद् = वचः, अहं = दिलीपः, विवक्षः- कथयितुमिच्छा, अस्मीति शेषः, हि= यतः, भवान् =दिलीपः, प्राणभृतां = जीवानाम् , अन्तर्गतं = हृद्गतं, भावम् = अभिप्राय, वेद = जानाति, अतः= कारणात् , समिधास्ये = कथ यष्यामि ॥ ४३ ॥
समा०--संरुद्धाः चेष्टाः यस्य सः संरुद्धचेष्टः, तस्य संरुद्ध चेष्टस्य । मृगाणाम् इन्द्रः मृगेन्द्रः, तत्सम्बुद्धौ (हे ) मृगेन्द्र ! हसितुं योग्यं हास्यम् । वक्तुमिच्छुः विवक्षुः। प्राणान् बिभ्रतीति प्राणभृतः, तेषां प्राणभृताम् ।
शमि०-हे मृगेन्द्र ! संरुद्धहस्तसंचालनव्यापारस्य मे वचनं यद्यपि परिहासयोग्यं वर्तते, तथापि भवान् सर्वजन्तूनां हृदि स्थितं सर्वमेव जानाति, अतोऽहं कथयिष्यामि ।
हिन्दी-हे सिह ! हाथ के बँध जाने से मैं कुछ नहीं कर सकता, इसलिये वह वचन भले ही दिल्लगी करने के योग्य है जिसे मैं कहना चाहता हूँ, फिर भी आप प्राषियों के सभी मनोभावों को जानते हैं इससे कहता हूँ ॥ ४३ ॥
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्ने इयत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥ सञ्जीविनी--प्रत्यवहारः प्रलयः। स्थावराणां तरुशैलादीनां जंगमान मनुष्यादानां सर्गस्थितिप्रत्यवहारेष हेतुः स ईश्वरो मे मभ मान्यः पूज्यः । अलड्घ्यशासन इत्यर्थः । शासनं च 'सिंहत्वमङ्कागतसत्त्ववृत्ति' इति प्रागुक्तरूपम् । तहि विसृज्य गम्यताम् । नेत्याह गुरो पोति । पुरस्तादेग्रे नश्यनिदमाहिताग्नेगुरोर्धनमपि गोरूपमनुपेक्षणीयम् । आहिताग्नेरिति विशेषयनानुपेक्षाकारणं हविःसाधनत्वं सूचयति ॥ ४४ ॥
अन्वयः-स्थावरजंगमाना, सर्गस्थितिप्रत्यवहार हेतुः, सः, मे, मान्यः, पुरस्तात् , नश्यत्, इदम् , आहिताग्नेः, गुरोः, धनम् , अपि, अनुपेक्षणीयम् ।
पाच्य०--सर्गस्थितिप्रत्यवहारहेतुना तेन मे मान्येन "भूयते" पुरस्तात् नश्यताऽनेन धनेनापि, अनुपेक्षषीयेन "भूयते"।
व्याख्या-तिष्ठन्तीति स्थावराः = तरुशैलादयः, गच्छन्तीति जंगमा = मनुष्यादयः, तेषां = स्थावरजंगमानाम् , सर्गः=उत्सत्तिः, स्थितिः =पालनम् , प्रत्यवहारः= विनाशः, तेषां तथोक्तानां हेतुः= कारणम् , स:- ईश्वरः, मे= मम दिलोपस्य, मान्यः- पूज्यः, अस्तीति शेषः, पुरस्तात् = अग्रे, नश्यत् = नाशं गच्छत् , इदम् = पुरतो दृश्यमानम् , माहितोऽग्नियेन स तस्य, आहिताग्ने:= अग्नि. होत्रिणः, गुरोः- वशिष्ठस्य, धनम् = गारूपधनम् , अपि = न, उपेक्षणीयमनुपेक्षषीयम् = उपेझानईम् ।
समा०-तिष्ठन्तीति स्थावराः, गच्छन्तीति जङ्गमाः, स्थावराश्च जङ्गमाश्च स्थावर जङ्गमाः, तेषां स्थावरजङ्गमानाम् । सर्गश्च स्थितिश्च प्रत्यवहारश्च सर्गस्थितिप्रत्यवहाराः, सर्गस्थितिप्रत्यवहाराणां हेतुः सर्गस्थितिप्रत्यवहारहेतुः । मानितुं योग्यः मान्यः । आहितः अग्निः येन सः आहिताग्निः, तस्य आहिताग्नेः । नश्यतीति नश्यत् । उपेक्षितुं योग्यम् उपेक्षणीयम् , न उपेक्षषीयम् अनुपेक्षषीयम् ।