________________
रघुवंश महाकाव्ये
हिन्दी- -रक्षा करने वाले सपत्नीक राजा दिलीप, पास में रखा है उपहार दीपक जिसके ऐसी बैठी हुई उस धेनु के पीछे बैठकर क्रमसे नन्दिनो के सोने पर सोये, और प्रातःकाल जगते ही स्वयं मी जग गये ॥ २४ ॥
२४
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुत्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ २५ ॥ सजीविनी - इत्थमनेन प्रकारेण प्रजार्थ संतानाय महिष्या मममभिषिक्तपल्या सह । 'कृताभिषेक महिषी' इत्यमरः । व्रतं धारयतः महनीया पूज्या कीर्तिर्यस्य तस्य । दीनानामुद्धरणं दैन्यविमोचनं तत्रोचितस्य । नृपस्य । त्रयो गुप्पा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनामि व्यतीयुर्व्यतिक्रान्तानि ॥ २५ ॥
अन्वयः - इत्थम्, प्रजार्थं, महिष्या, समं, व्रतं, धारयतः, महनीयकीर्तः, दीनोद्धरणोचितस्य, तस्य, त्रिगुणानि, सप्त दिनानि, व्यतीयुः ।
वाच्य० - इत्थं व्रतं धारयतः महनायकीर्तः त्रिगुणैः सप्तभिः दिनैः व्यतीये ।
व्याख्या - इत्थम् = अनेन प्रकारेण, प्रजा = सन्तानः एव अर्थ : = प्रयोजनं यस्य तत्तथोक्तम् सन्तानायेत्यर्थः, महिष्या = कृताभिषेकया सुदक्षिणया, समं = सह, व्रतं = नियमम्, धारयनः = दधतः कुर्वत इति यावत् । महनीया = पूज्या, कीनिः = यशो यस्य तस्य महनीयकीर्तेः । दीनानां = = दैन्ययुक्तानाम्, उद्धरणं = रक्षणम्, तत्र, उचितः परिचितः इति दीनोद्धरप्पोचितस्तम्य तथोक्तस्य, तस्य = दिलीग्स्य, त्रयो गुणा श्रावृत्तयो येषां तानि, त्रिगुगानि = त्रिरावृत्तानि सप्त = सप्तसंख्यकानि, दिनानि दिवसाः, एकविंशतिदिनानीति भावः व्यतीयुः = व्यतिचक्रमुः ।
समा०-प्रजा पत्र अर्थः यस्य तत् प्रजार्थम् - अथवा प्रजायै इति प्रजार्थम् (अस्वपदविग्रहः ), तत् प्रजार्थम् । महनीया कीर्तिः यस्य सः महनीयकीर्तिः, तस्य महनायकीर्ते: दोनानाम् उद्धरणम् दीनोद्धरणम्, दोनोद्धरणे उचितः दोनोद्धरणोचितः तस्व दानोद्धरणोचितस्य । त्रयो गुणाः येषां
A
तानि त्रिगुणानि ।
अभि० -- एवं पूर्वोक्तप्रकारेण सुदक्षिणया सह नन्दिनीमेारूपं व्रतं कुर्वती उदारकीर्तः, दोनोद्धरणपरस्य दिलीपस्य, एकविंशतिदिवसाः व्यतीताः ।
हिन्दी - - इस प्रकार पुत्र के लिए महारानी सुदक्षिणा के साथ व्रत को धारण करते हुए, प्रशंसनी कीर्तिवाले, दुखियों, के उद्धारक महाराज दिलाप के इक्कीस दिन बीत गये | २५ ||
अन्येद्युरात्माऽनुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष् गौरीगुरोर्गह्वरमाविवेश ॥ २६ ॥
सन्जीविनी - अन्येद्युरन्यस्मिन्दिने द्वात्रिंशे दिने । " सद्यः परुत्परारि" इत्यादिना निपातनादव्ययत्वम् । “अद्यात्रःह्नाय पूर्वेऽह्नात्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ।" इत्यमरः । मुनिहोमधेनुः आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम् । 'भावाऽभिप्राय आशयः' इति यादवः । बिज्ञासमाना ज्ञातुमिच्छन्ती । ' ज्ञाश्रुस्मृदृशां सनः" इत्यात्मनेपदे शानच् । प्रपतत्य स्पन्निति प्रपातः