________________
द्वितीयः सर्गः
च्छिन्नरिपुः। दिलीपः राजा, दारैः= अरुन्धत्या, सह वर्तमानः, तस्य सदारस्य, पादौ चरणो, निपीडय = संवाह्य ( अभिवन्धेत्यर्थः), सन्ध्यायां मवं सान्ध्यं सन्ध्याकालिकं, विधिम् = अनुष्ठानं च, समाप्य = विधाय ( कृस्वेत्यर्थः ), दोहत्य =दोहनस्य, अवसानम् = अन्तस्तस्मिन् , दोहावसाने, निषण्पाम् = उपविष्टाम् , दोग्धी = दोहनशीलां धेनुम् , एव ( अवधारणे ) पुनः= भूयोऽपि, मेजेसेवितवान् । धेनुमेव सिषेवे, इति भावः ।
समा०-भुजाभ्याम् उच्छिन्नाः रिपबः येन सः भुजोच्छिन्नारपुः । दारैः सह तर्तते इति सदारः, तस्य सदारस्य । गृणाति ( तत्त्वं कथयति ) इति गुरुः तस्य गुरोः । सन्ध्यायां भवः सान्ध्यः, तं सान्ध्यम् । दोहस्य अवसानं दोहावसानम् , तस्मिन् दोहावसाने। '
अमि०-सपत्नी को राजा दिलीपः, सदारस्य वशिष्ठस्य चरप्पसंवाहनं कृत्वा, सायन्तनी विधि च विधाय, पुनरपि नन्दिनीमेव सेवितवान् ।
हिन्दी-निज बाहुबल से शत्रुओं को नष्ट करने वाले राजा दिलीप ने अरुन्धती और वशिष्ठजो को चरण-सेवा करने के बाद और सायं सन्ध्या से निवृत्त होकर दूध दुहने के पश्चात् सानन्द बैठो हुई नन्दिनी की सेवा पुनः शुरू कर दो ॥ २३ ॥
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः।
क्रमेण सुप्तामनुसविवेश सुप्तोस्थितां प्रातरनूदतिष्ठत् ॥ २४ ॥ सजीविनी-गोप्ता रक्षको गृहिणासहायः पत्नीद्वितीयः सन् । उभावीत्यर्थः। अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपविश्य क्रमेण सुप्तामन्वनन्तर संविवेश सुष्वाप । प्रातः सुप्तोत्थितामनूदातष्ठस्थितवान् । अत्रानुशब्देन धेनुराजव्यापारयोः पोपियेमुच्यते । क्रमशब्देन धेनुव्यापाराणामेव । इत्यपोनरुक्त्यम् । “कर्मप्रवचनीययुक्त द्वितीया" इति द्वितीया ॥ २४ ॥
अन्वयः-गाप्ता, गृहणीसहायः 'सन्' अन्तिकन्यस्तबलिप्रदीपा, ताम् ; अन्नास्य, क्रमेण, सप्ताम्, अनुसंविवेश, प्रातः, सुप्तोत्थिताम् , अनूदातष्ठत् ।
वाच्य०-गोत्रा, गृहिणासहायेन 'सता' सुप्ता, अनुसंविावशे, उपस्थीयत ।
व्याख्या-गोता रक्षकः दिलोपः, गृहिणी -मायाँ, सहाया - द्विताया यस्य सः, गृहिणीसहायः सन् (द्वावपात्ययः), अन्तिके समीप, न्यस्ताः- स्थापिताः, बलयः= उपहारा:,प्रदीप : दीपाश्च,यस्याः सा ता तथाक्ताम् , ता निषण्णां धेनुम् , अन्वास्य = अनूपविश्य, क्रमेण = क्रमशः सुप्ता - निद्रिताम् , अनुप वात् , सविवेश - शिश्ये, प्रातः= प्रभाते, आदी सुप्ता-शयिता, पश्चात , उत्थिता विनिद्रिता ताम् , गुप्तोत्थिताम् , अनु - पश्चात् , उदातष्ठत् = उत्तस्यो ।
समा०-गृहिणो सहाया यस्य सः गृहणीसहायः। बलयश्च ( बलेवा ) प्रदापाश्च बलिप्रदोपाः, अन्तिके न्यस्ता: बलिप्रदीपाः यस्याः सा अन्तिकन्यस्तबलि पदोपा, ताम् अन्तिकन्यस्तबलिप्रदीपाम् । सुप्ता चासौ ( पश्चात् ) उत्थिता च सुप्तोत्थिता, तां सुप्तोत्थिताम् । ___ अभि०-सुदक्षिणासहितः राजा दिलीपः समीपस्थापितलिप्रदीपायाः नन्दिन्याः पृष्ठमागे समुपविश्य, नन्दिन्या सृप्तायां सत्यां पश्चात् स्वयं सपत्नीकः सुष्वाप, प्रभाते च उस्थितायां तस्यामनूदतिष्ठति ।