SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये अमि०---प्रमाते राजा दिलीप: सुदक्षिणया कृतना पीतवरसा वशिष्ठस्य घेनुं वने विचरित मुक्तवान् । हिन्दी--रात बीत जाने पर प्रातःकाल, प्रजा का पालन करने वाले यश को ही धन माननेवाले राजा दिलीप ने, महारानी सुदक्षिणा ने चन्दन तथा पुष्पमाला से जिसकी अर्चना की है और दूध पो लेने के पश्चात् जिसका बछड़ा बाँध दिया गया है ऐसी ऋषि वशिष्ठ को घेनु को वन में चराने के लिए खोल दिया॥१॥ तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया। मागं मनुष्येश्वरधर्मपत्नी श्रतेरिवार्थ स्मृतिरन्वगच्छत् ॥ २ ॥ सीविनी-पांसवो दोषा आसां सन्तोति पांसुलाः स्वैरिण्यः । 'स्वैरिणी पांसुला' इत्यमरः । "सिध्मादिभ्यश्च" इति लच्प्रत्ययः । अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्तनीया परिगपनीया मनुष्येश्वरधर्मपत्नी। खुरन्यासैः पवित्राः पासको यस्य तम् । 'रेणुयोः स्त्रियां धुलि: पांसुर्ना न द्वयो रजः' इत्यमरः। तस्या घेनोर्मार्गम् । स्मृतिमन्वादिवाक्यं अतेवेंदवाक्यस्यार्थममिधेयमिव । अन्नगच्छदनु सूतवती च । यथा स्मृतिः श्रुतिक्षामेवार्थमनुसरति तथा सापि गोखुरक्षुण्णमेव मार्गमनुससारेत्यर्थः । धर्मपत्नीत्यत्राश्वघासादिवत्तादश्य षष्ठीसमासः प्रकृतिविकारामावात् । मुलपयप्रवृत्तावप्यपांसुलानामिति विरोधालद्वारो ध्वन्यते ॥ २॥ अन्वयः- अपांसुलाना, धुरि, कीर्तनीया, मनुध्येश्वरथर्मपत्नी, खुरन्यासपवित्रपतिं, तस्याः, भार्गम् , श्रुते;, अर्थम् , स्मृतिः, इव, अन्वगच्छत् । शाच्य० ----मनुष्येश्वरधर्मपत्न्या तस्याः मार्गः श्रुतेरर्थः स्मृत्या इव अन्वगम्यत । व्याख्या-पांसवो-दोषाः आसां सन्तीति पांसुलाः स्वैरिण्यः. 'स्वरिषी पासुला' इत्यमरः। न पांसला इति अपांसुलास्तासामपांसुलानाम् = पतिव्रतानाम् , धुरि = अग्रे, कीर्तनीया = प्रशंसनीया, मनुष्याणाम् ईश्वरो मनुष्येश्वरस्तस्य धर्मार्थ पत्नी- इति मनुष्येश्वरधर्मपत्नी - सुदक्षिणा, खुराष%3D शफान न्यासाः = निक्षेपाः खुरन्यासाः तैः पवित्राः= पूताः पासवः धूलयो यस्य स तं खुरन्यासपवित्र पोसम् = शफनिःक्षेपपरिपूरारजःकणम् , तस्याः नन्दिन्याः, मार्गम् = पन्थानम् , स्मृतिः = मन्वादिः, भुतेः=वेदस्य, अर्थम् =अभिधेयम् , इव = यथा, अन्वगच्छत् = अन्वव्रजत्। समा०-पांसवः (दोषाः ) आसा सन्तीति पांमुलाः, न पांसुलाः अपांसुलाः, तासाम् अपहिलानाम् । मनुष्याणाम् ईश्वरः, मनुष्येश्वरः, धर्मस्य पत्नी धर्मपत्नी, मनुष्येश्वरस्य धर्मपत्नी मनुष्येश्वरधर्मपत्नी। खुराणों न्यासाः खुरन्यासाः खुरन्यासैः पवित्राः पांसवः ( धूलयः) यस्य सः खुरन्यासपवित्रपांसुः तं खुरन्यासपवित्रपासुम् । अमि०--पतिव्रतानामग्रगण्या मुदक्षिणा यथा, स्मृतयः अतिमनुसरन्ति तथैव नन्दिनोपादनिक्षेपेय पवित्रं मार्गमनुसतवतो।। हिन्दी--पतिव्रतालों में प्रथम, राजा दिलीप की पत्नी सुदक्षिणा ने नन्दिनी के खुरों के रखने से पवित्र धूलि वाले मार्ग का उसी प्रकार अनुसरण किया, जिस प्रकार मन्वादि स्मृतियों वेदार्थ का अनुसरण करती हैं ॥२॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy