________________
द्वितीयः समः
निवयं राजा दयितां दयालुस्ता सौरभेयी सुरमियंशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामियोर्वीम् ॥३॥ सीविनी-दयालुः कारुषिकः 'स्याइयाछुः कारुणिकः' इत्यमरः। "स्पृहिगृहि" इत्यादिना. कुच्प्रत्ययः। यशोमिः सुरमिमनोशः। 'सुरमिः स्यान्मनोशेऽपि' इति विश्वः । राना तो दयितां निवत्यं सौरमेयी कामधेनुसुता नन्दिनीम् । परन्तीति धराः। पचाबच् । पयता धराः पयोधराः स्तनाः । 'स्त्रीस्तनान्दो पयोधरौं' इत्यमरः । अपयोधराः पयोधराः संपद्यमानाः पयोधरीभूताः । भमूततदावे चिः। "कुगतिप्रादयः" इति समासः । पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम् । “अनेकमन्यपदार्थे" इत्यनेकपदार्थग्रहणसामर्थ्यात् त्रिपदो बहुव्रीहिः। गोरूपधरामुवीमिव जुगोप ररक्ष । भूरक्षणप्रयत्नेनेव ररक्षेति भावः । धेनुपक्षे पयसा दुग्धेनाधरोमूताश्च स्वारः समुद्रा यस्याः सा तथोक्ताम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥३॥
अन्धयः-दयालुः, यशोमिः सुरमिः, राजा, दयिता, ता, निवर्य, सौरमेयीम् , पयोधरीभूतचतु:समुद्राम् , गोरूपधराम् , उवाम् , इव, जुगोप ।
वाच्य०-दयालुना राशा सौरमेयी गोरूपधरा उवीं इव जुगुपे ।
व्याख्या-दया अस्यास्तीति दयालुः= कारुणिकः, 'स्याहयालुः कारुणिकः' इत्यमरः । यशोमिःकीर्तिमिः, सुरमिः= मनोशः, 'सुरमिः स्यान्मनोशेऽपीति विश्वः' राजा= दिलीपः, दयितां=प्रियां, ता - सुदक्षिणाम् , निवयं = परावर्त्य, सुरमेरपत्यं स्त्री सौरमेयी ताम् सौरमेयोम् = नन्दिनीम् । परन्तीति धराः पयसां धराः पयोधराः= स्तनाः, न पयोधरा अपयोधराः अपयोधराः पयोधराः सम्पद्यमानाः इति पयोधरीभूताः-स्तनीभूताः, चत्वारः= चतुःसंख्यकाः, समुद्राः सागराः, यस्याः सा तां तथोक्ताम् । धेनुपक्षे पयसा= दुग्धेन, अधरीभूताः=तिरस्कृता, चत्वारः समुद्रा यया सा तां तथोक्ताम् । गोः रूपं गोरूपं गोरूपस्य धरा गोरूपधरा तां गोरूपधराम् = गोरूपिणीम् , उर्वीम् = पृथिवीम् , इवयथा, जुगोप =ररक्ष।
समा०-सुरमेः ( गोः अर्थात् कामधेनोः ) अपत्यं स्त्री सौरमेयो, तां सौरमेयीम् । परन्तीति धराः, पयसा धराः पयोधराः, अपयोधराः पयोधराः सम्पद्यमानाः पयोधरीभूताः, पयोधरीभूताः चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूत चतुःसमुद्राम् ( इति उर्वोपक्षे)। अनपराः (उच्चाः) अधराः सम्पद्यमानाः अधरीभूताः ( नीचभूताः) पयसा ( दुग्धेन ) अधरीभूताः चत्वारः समुद्राः यस्याः सा पयोधरीभूनचतुःसमुद्रा, तां पयोधरीभूतचतुःसमुद्राम् ( इति तु गोपक्षे )। धरतीति धरा, गोः रूपं गोरूपम् गोरूपस्य धरा गोरूपधरा, तो गोरूपधराम् ।
अमि०-राजा दिलीपः सुदक्षिणा परावत्यं पृथिवीमिव वशिष्ठधेनुं पालयाम्बभूव । हिन्दी-दयायुक्त सत्कोतियों से सुशोभित महाराजा दिलीप अपनी पत्नी सुदक्षिणा को लौटाकर, दूष से चारों समुद्रों को तिरस्कृत कर दिया है जिसने ऐसी उस धेनु की, चार समुद्रों को चार स्तनों के रूप में धारण की हुई गौ के रूप में उपस्थित पृथ्वी के समान रक्षा करने लमा ॥३॥