________________
महाकविकालिदास कृत श्री रघुवंश महाकाव्य
द्वितीय सर्ग अथ प्रजानामधिपः प्रमाते जायाप्रतिग्राहितगन्धमाझ्याम् ।
वनाय पीतप्रतिबद्धवस्सां यशोधनो धेनुमषेर्मुमोच ॥१॥ सञ्जीविनी-अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रमाते प्रातःकाले जायया सुदक्षिणया प्रतिग्राहयिच्या प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या तां तथोक्ताम्। पीतं पानमस्यास्तीति पीतः पीतवानित्यर्थः। “अर्श मादिभ्योऽच्" इत्यच्प्रत्ययः । 'पोता गावो भुक्ता ब्राह्मयाः' इति महामाष्ये दर्शनात् । पीतः प्रतिबद्धो वरसो यस्यास्वामृर्वसिष्ठस्य घेर्नु वनाय वनं प्रति गन्तुम् । "क्रियाथोंपपदस्य च कर्मणि स्थानिनः" इत्यनेन चतुर्थो । मुमोच मुक्तवान् । जायापदसामर्थ्यारसुदक्षिणायाः पुत्रजननयोग्यवमनुसंधेयम् । यथाहि अतिः-"पति या प्रविशति गमों मूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः ।।" इति । यशोधन इत्यनेन पुत्रवत्ताकोतिलोमाद्राजानहें गोरक्षणे प्रवृत्त इति गम्यते। अस्मिन्तगें वृत्तमुपजाति:-"अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः" इति ॥१॥
विश्वेश्वरं सम्प्रणम्य, विद्याविद्योतकारणम् ।
धारादत्तेन क्रियते व्याख्यया छात्रोपयोगिनी ॥१॥ अन्वयः-अय, यशोधनः, प्रजानाम् , अधिपः, प्रमाते, जायाप्रतिमाहितगन्धमाल्याम् , पोतप्रतिबद्धवरसा, ऋषेः, धेनुम् , वनाय, मुमोच ।
वाच्य०-प्रजानामधिपेन ऋषेधेनुर्मुमुचे।
व्याख्या-अथ रात्रिव्यत्ययानन्तरम् , यशः= कोतिरेव, धनं वित्तं यस्य स यशोषनः, प्रकण जायन्ते इति प्रजास्तासाम् प्रजानां = जनानाम् , अधिपः = स्वामी, प्रकर्षण माति वस्तु यस्मिन्निति प्रमातन्तस्मिन् , प्रभाते=प्रातःकाले, गन्धश्च माल्यञ्च गन्धमाल्ये, बायया-सुदक्षिपया, प्रतिग्राहिते = स्वीकारिते गन्धमाल्ये सकचन्दने यया सा ता तथोक्ताम्, आदी पीतः= पीतवान्, पश्चात् प्रतिवद्धः= नियन्त्रितः, वरसः=शकृत्करियस्याः सा तां तथोक्ताम् 'शरकरिस्तु वत्सः स्याद्' इत्यमरः, ऋषेः- वशिष्ठस्य, धेनुं नन्दिनीम्, वनायवनं गन्तुं, मुमोच-मुक्तवान् ।
समास:-यश एव धनं यस्य सः यशोधनः । प्रकर्षेप जायन्ते इति प्रजाः। अधि अधिकं पातीति अधिपः, गन्धश्च माल्यं च गन्यमाल्ये, जायया प्रतिग्राहिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्याम् । ( अत्र नन्दिन्याः प्रयोजककर्तृवं सुदक्षिणायाश्च प्रयोज्यकर्तृत्वं विवक्षितमिति 'प्रतिग्राहित' इत्यत्र पिच कृतः, प्रकृते नन्दिन्यां प्रयोजककर्तृत्वं तूप्योमवस्थाय गन्धमाल्यस्वीकरणमात्रेणापि निवंहति इत्यवधातव्यम् ) पोतं पानम् अस्यास्तीति पोतः, (दुग्धपानकर्तुर्वरसस्य विशेषणम्।) पोतः (पश्चात् ) प्रतिबद्धः वत्सः यस्याः सा पीतप्रतिपावसा, वां पोतपतिबद्धवरमाम् । धीवते (पायते ) वत्सरिति धेनुः, तां धेनुम् ।