________________
४५८
रघुवंशे अस्त्रेषु धनुर्विद्यायां विनीयमानः शिक्ष्यमाणोऽत एवोत्तरार्ध पूर्वकायं किंचिदिव व्यूह्य विस्तार्य स्थितः । उन्नद्धचूड ऊर्ध्वमुत्कृष्य बद्धकेशः । अञ्चितमाकुञ्चितं सव्यं जानु यस्य स आकर्णमाकृष्टं सबाणं धनुर्धन्वं वा येन स तथोक्तः सन्व्यरोचताशोभत ॥
अन्वयः-अस्त्रेषु विनीयमानः अतः एव उत्तरार्ध किंचित् इव व्यूह्य स्थितः उन्नद्धचूड: अञ्चितसव्यजानुः आकर्णम् आकृष्टबाणधन्वा सन् व्यरोचत ।
व्याख्या-अस्त्रेषु = आयुधेषु-धनुर्विद्यायामित्यर्थः। विनीयते इति विनीयमानः- शिक्ष्यमाणः अतः एव उत्तरं च तदर्धमिति उत्तरार्धं तत् = पूर्वकायं किंचित् = स्वल्पम् इव व्यूह्य = प्रसार्य स्थितः = तिष्ठन् , उत् = ऊर्ध्वमुत्कृष्य नद्धा = बद्धा चूडा= शिखा = केशाः येन सः उन्नद्धचूडः । अन्चितम् = आकुञ्चितं सव्यं = वामं जानु = ऊरुपर्व येन सः अश्चितसव्यजानुः आलीढाख्यासनविशेषेण स्थित इत्यर्थः । “वामं सव्यं शरीरं स्यात्” “जानूरुपर्वाष्ठोवदस्त्रियामिति" चामरः। कर्ण = श्रोत्रमभिव्याप्य इति आकर्ण = कर्णपर्यन्तम् । बाणेन सहितं सबाणं = सशरम् । आकृष्टं = संधानितं सबाणं = सशरं धनुः = चापं येन सः आकृष्टसबाणधन्वा सन् व्यरोचत = अशोभत।
समासः-उत्तरञ्च तदर्धमिति तत् उत्तरार्धम् । उत् नद्धा चूडा येन सः उन्नद्धचूडः । अञ्चितं सव्यं जानु येन सः अश्चितसव्यजानुः । आकृष्टं सबाणं धनुर्येन सः आकृष्टसबाणधन्वा ।
हिन्दी-धनुर्विद्या ( अस्त्र शस्त्र चलाने ) की शिक्षा लेते समय बालक सुदर्शन अपने शरीर के ऊपरी भाग ( सीने ) को तानकर खड़ा हुआ, तथा केशों ( चोटी ) को ऊपर को खींचकर बाँधे हुए, और बाएँ घुटने को झकाये ( मोड़े ) हुए ( अर्थात् आलीढ, वीरासन से खड़ा हुआ ) और बाण चढ़ाकर धनुष की डोरी को कान तक खींचे हुए, बड़ा ही सुन्दर लगता था ॥ ५१॥
अथ मधु वनितानां नेत्रनिर्वशनीयं
मनसिजतरुपुष्पं रागबन्धप्रवालम् । अकृतकविधि सर्वाङ्गीणमाकल्पजातं
विलसितपदमाद्यं यौवनं स प्रपेदे ॥ ५२॥ अथ स सुदर्शनो वनितानां नेत्रनिर्वेशनीयं भोग्यम् । नेत्रपेयमित्यर्थः । 'निवेशो भृतिभोगयोः' इत्यमरः । मधु क्षौद्रम् । रागबन्धोऽनुरागसंतान एव प्रवालः पल्लवो यस्य तत् । मनसिज एव तरुस्तस्य पुष्पं पुष्पभूतम् । अकृतकविध्यकृत्रिमसंपादनम् । सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम् । 'तत्सर्वादे:-' इत्यादिना खप्रत्ययः। आकल्पजातमाभरणममूहभूतम् । आद्यं विलसितपदं विलासस्थानं यौवनं प्रपेदे। विशिष्टमधुपुष्पाकल्पजातविलासपदत्वेन यौवनस्य चतुर्धाकरणात्सविशेषणमालारूपकमेतत् ॥
अन्वयः-अथ सः वनितानां नेत्रनिवेशनीयं मधु, रागबन्धप्रवालं मनसिजतरुपुष्पम् , अकृतकविधि सर्वाङ्गीणम् आकल्पजातम् आद्यं विलसितपदं यौवनं प्रपेदे।