________________
अष्टादशः सर्गः व्याख्या--अथ = अनन्तरम् सः राजा सुदर्शनः वनिताना = महिलानाम् निवेष्टुं योग्यं निवेंशनीयं, नेत्रः = चक्षुभिः निर्देशनीयं = भोग्यमिति नेत्रनिवेशनीयं = भोग्यमिति नेत्रनिवेश. नीयं तत् । “निवेशस्तु पुमान् भोगे केतने मूर्च्छनेऽपि चेति" मेदिनी। मधु क्षौद्रम् , मधुतुल्यं मधुरं, दर्शनीयमित्यर्थः। रागस्य = अनुरागस्य बन्धः =सन्तानः-परम्परा, एवं प्रवालः = पल्लवः यस्य तत् रागबन्धप्रवालं, मनसि जातः इति मनसिजः = कामदेवः एव तरुः = वृक्षः तस्य पुष्पं = कुसुमभूतं तत् मनसिजतरुपुष्पम् , न कृतकः अकृतकः = स्वाभाविकः विधिः = सम्पादनं करणमित्यर्थः । यस्य तत् अकृतकविधि, सर्वाणि तानि अंगानीति सर्वाङ्गानि व्याप्नोतीति सर्वाङ्गोणं = सर्वाङ्गव्यापकम् , आकल्प्यन्ते, आकल्पयन्ति वा आकल्पाः। आकल्पानां = प्रसाधनानां, भूषणानाञ्चेत्यर्थः। जातं =समूहभूतमिति आकल्पजातम्-"जातं व्यक्तौधजन्मसु" इति आदौ भवम् आद्यं = प्राथमिक बिलसितानां = विलासानां पदं = स्थानमिति विलसितपदं यूनो. र्भावः यौवनं = तारुण्यं = युवावस्थामित्यर्थः प्रपेदे = प्राप।
समासः-नेत्रः निर्देशनीयमिति नेत्रनिर्वेशनीयम् । रागस्य बन्धः एव प्रवाल: यस्य तत् रागबन्धप्रवालम् । मनसिज एव तरुः इति मनसिजतरुस्तस्य पुष्पमिति मनसिजतरुपुष्पम् । न कृतकः अकृतकः विधिर्यस्य तत् अकृतकविधि । आकल्पानां जातमिति आकल्पजातम् । विलसितानां पदमिति विलसितपदम् , तत् ।
हिन्दी-इसके पश्चात् राजा सुदर्शन, उस युवावस्था को प्राप्त हो गया याने कि जवान हो गया, जो कि स्त्रियों के नेत्रों से भोगने योग्य मधु है रुचिकर सुख देनेवाला है । अनुराग समूह या परम्परा रूपी नया पल्लव के समान है। और कामरूपी वृक्ष का पुष्पस्वरूप हैं । और पूरे शरीर में व्याप्त होने वाली स्वाभाविक शोभा है। तथा मनोरञ्जन रंगरंगेली, अनुरागादि विलास का पहला स्थान है। और जो कि भूषणादि सजावट का समूहभूत है ॥ ५२ ॥
प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः
समधिकतररूपाः शुद्धसंतानकामः । अधिविविदुरमात्यराहृतास्तस्य यून:
प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ ५३ ॥ दूतिभिः कन्यापरीक्षणार्थ प्रेषिताभिः संदर्शिताभ्यो दूतिसंदर्शिताभ्यः प्रतिकृतीनां तूलिकादिलिखितकन्याप्रतिमानां रचनाभ्यो विन्यासेभ्यः । ‘पञ्चमी विभक्ते' इति पञ्चमी। समधिकतररूपाः। चित्रनिर्माणादपि रमणीयनिर्माणा इत्यर्थः। शुद्धसंतानकामैरमात्यैराहृता आनीता राजकन्याः यूनस्तस्य सुदर्शनस्य संबन्धिन्यौ प्रथमपरिगृहीते श्रीभुवौ श्रीश्च भूश्च ते अधिविविदुरधिविन्ने चक्रुः । आत्मना सपत्नीभावं चक्रुरित्यर्थः । ‘कृतसापत्निकाध्यूढाधिविन्ना' इत्यमरः॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेते महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
वंशानुक्रमो नामाष्टादशः सर्गः ।