________________
अष्टादशः सर्गः
उसके कुलपरम्परा के वे गुण भी खूब बढ़ गये, जो सर्वजन के प्रिय थे तथा जो आरम्भ (शुरू) में थोड़े एवं स्वल्प थे ॥ ४९ ॥
४५७
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरुणाम् ।
तिस्रत्रिवर्गाधिगमस्य मूलं जग्राह विद्या: प्रकृतीश्च पित्र्याः ॥ ५० ॥
स सुदर्शनः पूर्वस्मिञ्जन्मान्तरे जन्मविशेषे दृष्टपाराः स्मरन्निव गुरूणामक्लेशकरः सन् । त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः । तस्याधिगमस्य प्राप्तेर्मूलं तिस्रो विद्यास्त्रयी वार्तादण्डनीती : पित्र्याः पितृसंबन्धिनीः प्रकृतीः प्रजाश्च जग्राह स्वायत्तीचकार । अत्र कौटिल्य :- 'धर्माधमौं त्रय्यामर्थानर्थौ वार्तायां नयानयौ दण्डनीत्याम्' इति । अत्र दण्डनीतिर्नयद्वारा काममूलमिति द्रष्टव्यम् । आन्वीक्षिक्या अनुपादानं त्रय्यन्तर्भावपक्षमाश्रित्य । यथाह कामन्दकः - 'त्रयी वार्तादण्डनीतिस्तिस्रो विद्या मनोर्मताः । त्रय्या एव विभागोऽयं येन सान्वीक्षिकी मता ॥' इति ॥
अन्वयः -- सः पूर्वजन्मान्तरदृष्टपाराः स्मरन् इव गुरूणाम् अक्लेशकरः सन् त्रिवर्गाधिगमस्य मूलं तिस्रः विद्याः पित्र्याः प्रकृतीः च जग्राह ।
व्याख्या -- सः = राजा सुदर्शनः अन्यत् जन्म जन्मान्तरं, पूर्वस्मिन् जन्मान्तरे = अतीते जन्मनि दृष्टं = ज्ञातं पारम् = अन्तं यासां ताः इति पूर्वजन्मान्तरदृष्टपाराः ताः स्मरन् = = स्मरणं कुर्वन् इव = यथा अत एव गुरूणाम् = आचार्याणाम् क्लेशं = पाठनरूपं करोतीति क्लेशकरः न क्लेशकरः = कष्टप्रदः इति अक्लेशकरः सन् त्रयाणां = धर्मार्थकामानां वर्गः = समूहः इति त्रिवर्गस्तस्य त्रिवर्गस्य अधिगमः = प्राप्तिः, तस्य त्रिवर्गाधिगमस्य मूलम् = - आद्यं = प्रथमम् तिस्रः : त्रिसंख्याकाः वेत्ति तत्त्वसाक्षात्कारं करोति राजनीति जानाति याभिस्ताः विद्याः = त्रयोवार्तादण्डनीतीः कौटिल्योक्ताः पितुः आगताः पित्र्याः ताः पित्र्याः = पितुः संबन्धिनीः प्रकृतीः = प्रजाः च जग्राह = वशीकृतवान् । सर्वोऽपि अमात्यादिप्रकृतिवर्गः तद्वशे आसीदित्यर्थः ।
समासः -- अन्यत् जन्म जन्मान्तरं पूर्वं च तज्जन्मान्तरमिति पूर्वजन्मान्तरं तस्मिन् दृष्टं पारं यासां ताः पूर्वजन्मान्तरदृष्टपाराः ताः । न क्लेशकरः इति अक्लेशकरः । त्रयाणां वर्ग : त्रिवर्गस्तस्य अधिगमस्तस्य त्रिवर्गाधिगमस्य ।
हिन्दी - पूर्वजन्म में जिन विद्याओं में वह पारंगत था, मानों उन सब विद्याओं को स्मरण करके अत एव गुरुजनों को कष्ट न ( पढ़ाने का ) देनेवाला राजा सुदर्शन ने, धर्म अर्थ काम ( त्रिवर्ग) की प्राप्ति का प्रथम साधन तोनों विद्याओं ( त्रयो वार्ता दण्डनीति ) को, और पितृपरम्परा से प्राप्त प्रजा को अपने अधीन कर लिया । अर्थात् अनायास ही सब विद्याओं में पारंगत हो गया, और सारी प्रजा को प्रेम से अपने वश में कर लिया ॥ ५० ॥
व्यूह्य स्थितः किंचिदिवोत्तरार्ध मुन्नद्धचूडोऽञ्चितसव्यजानुः । आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रेषु विनीयमानः ॥ ५१ ॥