________________
४५६
. रघुवंशे
अन्वयः-युगोपमानम् अनश्नुवानेन अबद्धमौवींकिणलाञ्छनेन अस्पृष्टखड्गत्सरुणापि च तस्य भुजेन भूमिः रक्षावती आसोत् ।
व्याख्या-युगस्य = रथाद्यंगस्य उपमानं = सादृश्यमिति युगोपमानम् न अश्नुवानः अनश्नुवानस्तेन अनश्नुवानेन = अप्राप्नुवता, मूर्वायाः विकारः मौवीं, मौाः = ज्यायाः किणः = व्रणजचिह्नमिति मौवींकिणः, अबद्धं न जातं मौवींकिण एव लाञ्छनं = चिह्नं यस्य स तेन अबद्धमौर्वीकिणलाञ्छनेन खड्गस्य = कृपाणस्य त्सरुः = मुष्टिरिति खड्गत्सरुः, न स्पृष्टः इति अस्पृष्टः = अगृहीतः खड्गत्सरुः येन स तेन अस्पृष्टखड्गत्सरुणा, एवंविधेनापि च तस्य = बालकसुदर्शनस्य भुजेन = बाहुना भूमिः = पृथिवी, रक्षा=सुरक्षणमरया अस्तीति रक्षावती = अभिभावकवती, राजन्वतीत्यर्थः आसीत् = अभूत् । बालस्यापि तस्य सुदर्शनस्य तादृशः प्रभावः आसीदित्यर्थः।
समासः-युगस्य उपमानमिति तत् युगोपमानम् । न बद्धमिति अबद्धम् मौाः किणः मौवींकिणः स एव लाञ्छनमिति मौवींकिणलाञ्छनः अबद्धं मौवींकिणलञ्छनं यस्य स तेन तथोक्तेन । न स्पृष्टः खड्गस्य, त्सरुयेन स तेन अस्पृष्टखड्गत्सरुणा। न अश्नुवानः अनश्नुवानः, तेन अनश्नुवानेन।
हिन्दी-पृथिवी, बालराजा सुदर्शन की उस भुजा से 'भलीभाँति' रक्षावाली थी, जो भुजा अभी जुए के समान मोटी एवं लम्बी नहीं हो पाई थी। और जिसमें धनुष की डोरी की रगड़ का निशान भी नहीं बना था। तथा जिसने अभी तलवार की मूंठ भी नहीं छुई थी। अर्थात् बच्चा होनेपर भी उसका ऐसा प्रभाव था कि सर्वत्र सुख शान्ति थी ॥ ४८ ॥
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् ।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥ ४९॥ काले गच्छति सति तस्य केवलं शरीरावयवा एव विवृद्धिं प्रसारं न ययुः। किन्तु वंशे भवा वंश्या लोककान्ता जनप्रियाः प्रारम्भ आदौ सूक्ष्मास्तस्य गुणाः शौयौदार्यादयोऽपि प्रथिमानं पृथुत्वमापुः खलु ॥ __ अन्वयः-काले गच्छति सति तस्य केवलं शरीरावयवाः एव विवृद्धिं न आपुः किन्तु वंश्याः लोककान्ताः प्रारम्भसूक्ष्माः तस्य गुणाः अपि प्रथिमानम् आपुः खलु ।
व्याख्या-काले = समये गच्छति = याति सति तस्य = सुदर्शनस्य केवलं शरीरस्य = देहस्य अवयवाः = हस्तपादादयः, इति शरीरावयवाः एव विवृद्धिं = प्रसारं-विस्तारं न ययुः =न जग्मुः। किन्तु वंशे-कुले भवाः= जाताः वंश्याः, लोकानां = जनानां कान्ताः = प्रियाः इति लोककान्ताः प्रारम्भ = आदौ सूक्ष्माः =अल्पाः इति प्रारम्भसूक्ष्माः तस्य = सुदर्शनस्य गुणाः = शौर्यादयःदयादाक्षिण्यौदार्यादयश्चापि। पृथोर्भावः प्रथिमा तं प्रथिमानं = पृथुत्वम् आपुः=प्रापुः खलु = निश्चये । अवयवैः सह गुणाः अपि प्रवृद्धा इत्यर्थः ।
हिन्दी-कुछ समय बीतने पर सुदर्शन के केवल शरीर के अंग-प्रत्यंग ही नहीं बढ़े किन्तु