________________
अष्टादशः सर्गः
४५५ उरस्यपर्याप्तनिवेशमागा प्रौढीभविष्यन्तमुदीक्षमाणा ।
संजातलजेव तमातपत्रच्छायाच्छलेनोपजुगृह लक्ष्मीः ॥ ४७ ॥ उरस्यपर्याप्तो निवेशभागो निवासावकाशो यस्याः सा अत एव प्रौढीभविष्यन्तं वर्धिष्यमाणमुदीक्षमाणा प्रौढवपुष्मान्भविष्यतीति प्रतीक्षमाणा लक्ष्मीः संजातलज्जेव साक्षादालिङ्गितुं लज्जितेव तं सुदर्शनमातपत्रच्छायाच्छलेनोपजुगृहालिलिङ्ग । छत्रच्छाया लक्ष्मीरूपेति प्रसिद्धिः। प्रौढाइनायाः प्रौढपुरुषालाभे लज्जा भवतीति ध्वनिः ॥
अन्वयः-उरसि अपर्याप्तनिवेशभागा 'अत एव' प्रौढीभविष्यन्तम् उदीक्षमाणा लक्ष्मीः संजातलज्जा इव तम् आतपत्रच्छायाच्छलेन उपजुगूह ।
व्याख्या-उरसि = वक्षस्थले अपर्याप्तः = अयथेष्टः-अप्रकामः निवेशस्य = निवासस्य भागःअवकाशः-स्थानमित्यर्थः। यस्याः सा अपर्याप्तनिवेशभागा अत एव न प्रौढः=न प्रवृद्धः इति अप्रौढः । अप्रौढः प्रौढः भविष्यतीति प्रौढीभविष्यन् , तं प्रौढीभविष्यन्तम् उदीक्षते इति उदीक्षमाणा प्रतीक्षमाणा लक्ष्मीः = राज्यलक्ष्मीः संजाता = उत्पन्ना लज्जा = ह्रीः यस्याः सा संजातलज्जा इव = यथा साक्षात् आलिंगितुं लज्जिता इवेत्यर्थः । त=राजानं सुदर्शनम् , आतपात् त्रायते इति आतपत्रं =छत्रं तस्य छाया = आतपाभावः, तस्याः छलं = कपटं तेन आतपत्रच्छायाच्छलेन उपजुगूह = आलिंगितवती। छत्रच्छाया लक्ष्मीस्वरूपिणी भवतीति प्रसिद्धम् । प्रौढस्त्रियाः प्रौढमनुष्यालाभे लज्जा भवतीति भावः ।
समासः-अपर्याप्तः निवेशस्य भागः यस्याः सा अपर्याप्तनिवेशभागा। संजाता लज्जा यस्याः सा संजातलज्जा । आतपत्रस्य छाया आतपत्रच्छाया, तस्याः छलमिति आतपत्रच्छायाच्छलं तेन, आतपत्रच्छायाच्छलेन ।
हिन्दी-राजा सुदर्शन के हृदय में जिसके बैठने के लिए पूरा स्थान नहीं है, ( बालक होने के कारण ) इसीलए उसके युवा ( जवान ) होने की प्रतीक्षा करती हुई अर्थात् यह जवान पुरुष होगा तब आलिंगन सुख भोगूंगी, इस आशा में बैठी राज्यलक्ष्मी आलिंगन करने के लिये मानो बड़ी लजाती हुई, उस सुदर्शन का, सुफेद छत्र को छाया के बहाने आलिंगन करती थी। अर्थात् छत्र की छाया लक्ष्मी रूपी है। और युवती स्त्री युवा पुरुष के अभाव में छोटे पति के साथ लज्जा करती है ॥ ४७ ॥ .
अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलान्छनेन ।
अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥ ४८ ॥ युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता । अबद्धं मौवींकिणो ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन । अस्पृष्टः खड्गत्सरुः खड्गमुष्टियेन तेन । 'त्सरुः खङ्गादिमुष्टौ स्यात्' इत्यमरः। एवं विधेनापि च तस्य सुदर्शनस्य भुजेन भूमी रक्षावत्यासीत् । शिशोरपि तस्य तेजस्तादृगित्यर्थः ।।