________________
४४.
रघुवंशे
हिन्दी-नीतिशास्त्र के वेत्ता उस विश्वसह राजा को हिरण्याक्ष का संहार करने वाले विष्णु के अंश ( अंशावतार ) हिरण्यनाभ नामक पुत्र के उत्पन्न हो जाने पर राजा विश्वसह शत्रुओं के लिये उसी प्रकार असह्य हो गये ( भयंकर हो गये ) जिस प्रकार वायु को सहायक पा कर वनवृक्षों के लिये अग्नि भयंकर हो उठता है ॥ २५ ॥
पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः।
राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥ २६ ॥ पितृणामनृणः। निवृत्तपितृऋण इत्यर्थः । 'प्रजया पितृभ्यः' इति श्रुतेः। अत एव कृती। वृतकृत्य इत्यर्थः । पिता विश्वसहोऽन्ते वयसि वार्धकेऽनन्तान्यविनाशानि सुखानि लिप्सुः । मुमुक्षुरित्यर्थः। आजानुविलम्बिबाहुं दीर्घबाहुम्। भाग्यसंपन्नमिति भावः। तं हिरण्यनाभं राजानं कृत्वा वल्कलवान्बभूव । वनं गत इत्यर्थः ॥
अन्वयः-पितॄणाम् अनृणः “अतएव" कृती पिता अन्ते वयसि अनन्तानि, सुखानि लिप्सुः आजानुविलम्बिबाहुं तं राजानं कृत्वा वल्कलवान् बभूव ।
व्याख्या-पिटणां = पितृलोकगतानाम् नास्ति ऋणं = पुत्रानुत्पादनरूपं यस्य सः अनृणः = मुक्तपितृऋण इत्यर्थः । अत एव कृतमनेनेति कृती = कृतकृत्यः पिता = विश्वसहः अन्ते = अन्तिमे वयसि = अवस्थायां वाक्ये न अन्तः = विनाशः येषां तानि अनन्तानि सुखानि लिप्सुः = लन्धुमिच्छुः मुमुक्षुरित्यर्थः। जानुनी अभिव्याप्य आजानु = जानुपर्यन्तं विलम्बिनौ =दीघौं बाहू = भुजौ यस्य स तम् आजानुविलाम्बबाहुं भाग्यवन्तमित्यर्थः। तं हिरण्यनाभं राजानं = भूपालं कृत्वा = विधाय, राजसिंहासनेऽभिषिच्येत्यर्थः । वल्कलानि = वृक्षत्वचः सन्त्यस्येति वल्कलवान् = वल्कलधारी बभूव = जातः । वल्कलं परिधाय तपोवनं गत इत्यर्थः।
समासः-जानुनी अभिव्याप्य आजानु विलम्बिनौ बाहू यस्य सः आजानुविलम्बिबाहुस्तम् आजानुविलम्बिबाहुम् । न ऋणं यस्य सः अनृणः। न अन्तः येषां तानि अनन्तानि ।
हिन्दी--अब राजा विश्वसह पितरों के ऋण से उद्धार पा गये ( उऋण हो गये ) अत एव कृतकृत्य थे। ( संसार में कुछ कर्तव्य शेष न था ) अतः वह पिता अन्तिम अवस्था बुढ़ौती में कभी न नष्ट होनेवाले सुखों को प्राप्त करने के इच्छुक ( मोक्षप्राप्ति की इच्छा से ) हो अपने उस पुत्र को राजा बनाकर स्वयं वल्कल पहने हुए तपोवन चले गये, जिसके हाथ घुटनों तक लम्बे थे ॥ २६ ।।
कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य ।
तस्यौरसः सोमसुतः सुतोऽभूक्षेत्रोत्सवः सोम इव द्वितीयः ॥ २७ ॥ उत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य सूर्यवंशाभरणस्य सोमसुतः सोमं सुतवतः। यज्वन इत्यर्थः। 'सोमे सुञः' इति क्विप् । तस्य हिरण्यनाभस्य। द्वितीयः सोमश्चन्द्र इव। नेत्रोत्सवो नयनानन्दकरः कौसल्य इति प्रसिद्ध औरसो धर्मपत्नीजः सुतोऽभूत् ॥