________________
अष्टादशः सर्गः
४३९
अन्वयः-तेन क्षितेः ईश्वरेण विश्वेश्वरम् आराध्य विश्वसहः विश्वसखः समग्रां विश्वम्भरां पातुं सहः आत्ममूर्तिः आत्मा विजशे ।
व्याख्या-तेन =प्रसिद्धेन क्षितेः पृथिव्याः ईश्वरेण स्वामिना व्युषिताश्वेन विश्वस्य ईश्वरः तं विश्वेश्वरं = विश्वनाथं = वाराणसीपतिम् आराध्य =उपास्य सहते इति सहः विश्वस्य सहः विश्वसहः नाम समानं ख्यायते जनैरिति सखा, विश्वस्य = जगतः सखा=मित्रमिति विश्वसखः समग्राम् =अखिलां विश्वं =संसारं बिभर्ति = धारयति पालयति चेति विश्वंभरा तां विश्वम्भरां वसुन्धरां पातुं = रक्षितुं सहः क्षमः समर्थः । आत्मनः = स्वदेहात् जातः आत्मजः = पुत्रः एव मूर्तिः स्वरूपं यस्य सः आत्मजमूर्तिः = पुत्ररूपी =अतति=सततं गच्छतीति आत्मा स्वयम् एव विजशे=जातः । उत्पन्नः इत्यर्थः। “आत्मा वैजायते पुत्रः आत्मा वै पुत्रनामासी"ति श्रुतेः ।
समासः-विश्वस्य ईश्वरः विश्वेश्वरस्तं विश्वेश्वरम् । विश्वस्य सखा विश्वसखः । विश्वस्य सहः विश्वसहः । विश्वस्य भरा विश्वम्भरा तां विश्वम्भराम् । आत्मज एव मूर्तिः यस्य सः आत्मजमूर्तिः । - हिन्दी-उस पृथिवी पति राजा व्युषिताश्व ने, काशी के राजा भगवान् विश्वेश्वर की आराधना करके विश्वसह ( विश्व को सहन कर सकने वाला ) नाम का पुत्र रूपी ( पुत्र रूप से ) अपने आप को पैदा किया। जो कि संसार का मित्र ( प्रिय ) और सारी पृथिवी का शासन करने के लिये समर्थ था। अर्थात् व्युषिताश्व ने विश्वनाथ की कृपा से विश्वसह पुत्र पाया, और वह भूमण्डल का शासक हुआ ॥ २४ ॥
अंशे हिरण्याक्षरिपोः स जाते हिरण्यनामे तनये नयज्ञः ।
द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलाऽभूत् ॥ २५ ॥ नयज्ञो नीतिज्ञः स विश्वसहः । हिरण्याक्षरिपोर्विष्णोरंशे हिरण्यनाभे नाभितनये जाते सति । तरूणां सानिलो हिरण्यरेता हुतभुगिव द्विषां सुतरामसरोऽभूत् ।।
अन्वयः-नयज्ञः सः हिरण्याक्षरिपोः अशे हिरण्यनामे तनये जाते सति तरूणां सानिलः हिरण्यरेता इव द्विषां सुतराम् असह्यः अभूत् ।
व्याख्या-नयं = नीति जानातीति नयज्ञः = नीतिवित् सः= विश्वसहः. हिनोति, हीयते वा हिरण्यं = सुवर्ण, हिरण्यवत् पीते अक्षिणी यस्य स हिरण्याक्षः=दैत्यविशेषः हिरण्यकशिपुभ्राता तस्य रिपुः= संहारकः = विष्णुस्तस्य हिरण्याक्षरिपोः अंशे= हिरण्यं नाभौ यस्य स हिरण्यनाभस्तस्मिन् हिरण्यनाभे = एतन्नाम्नि तनये = पुत्रे = विश्वसहसुते, इत्यर्थः । जाते = उत्पन्ने सति तरूणां = वृक्षाणां अनिलेन = वायुना सहितः सानिलः हिरण्यं रेतोऽस्यासौ हिरण्यरेताः = अग्निः इव = यथा द्विषां = शत्रूणां सोढुं योग्यः सह्यः न सह्यः असह्यः सोढुमशक्यः अभूत् ।
समासः-हिरण्यवत् अक्षिणी यस्य स हिरण्याक्षः, हिरण्याक्षस्य रिपुस्तस्य हिरण्याक्षरिपोः । हिरण्यं नाभौ यस्य स तस्मिन् हिरण्यनामे । हिरण्यं रेतो यस्य स हिरण्यरेताः। अनिलेन सहितः सानिलः । न सह्यः असह्यः ।