________________
४३८
रघुवंशे
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः । वेलातटेषूषितसैनिकाश्व पुराविदो यं व्युषिताश्वमाहुः ॥ २३ ॥
तस्य शङ्खणस्यावसानेऽन्ते हरिदश्वधामा सूर्यतेजाः । अश्विनोरिव रूपमस्येत्यश्विरूपोऽतिसुन्दरः। तत्पुत्र इति शेषः । पित्र्यमिति संबन्धिपदसामर्थ्यात् । पित्र्यं पदं प्रपेदे । वेलातटेषूषिता निविष्टाः सैनिका अश्वाश्च यस्य तम् । अन्वर्थनामानमित्यर्थः । यं पुत्रं पुराविदो वृद्धा व्युषिताश्वमाहुः ।
श्रन्वयः—तस्य अवसाने हरिदश्वधामा अश्विरूपः " तत्पुत्रः " पित्र्यं पदं प्रपेदे । वेलातटेषु उषितसैनिकाश्वं यं पुराविदः व्युषिताश्वम् आहुः ।
व्याख्या - तस्य = राज्ञः शंखणस्य अवसाने = अन्ते, शंखणे मृते सतीत्यर्थः । हरितः = हरिवर्णाः अश्वाः यस्य स हरिदश्वः, तस्य धाम इव धाम = तेजो यस्य स हरिदश्वधामा: सूर्यकान्तिः प्रशस्ताः अश्वाः सन्ति ययोः अश्विन्यां जातौ वा, अश्वः जनकत्वेनास्ति ययोर्वा अश्विनौ = स्वर्वैद्यौ, तयोः रूपमस्ति यस्य सः अश्विरूपः = अश्विनीकुमारवत् सुन्दरः इत्यर्थः । शंखणपुत्रः पितुरिदं पित्र्यं = पितृसम्बन्धि तत् पदं स्थानं राज्यासनमित्यर्थः । प्रपेदे – प्राप वेलायाः सागरतटस्य तटानि = तीराणि तेषु वेलातटेषु उषिताः = निविष्टाः सैनिकाः = सैन्यानि अश्वाः=तुरगाश्च यस्य स तम् उषितसैनिकाश्वम् । अन्वर्थनामकमित्यर्थः । यं = पुत्रं पुरा = पुराणं विदन्ति = जानन्ति ते पुराविदः इतिहासज्ञाः विशेषेण उषिताः अश्वाः यस्य स व्युषिताश्वस्तं व्युषिताश्वं = व्युषिताश्वनामानम् आहुः = जगदुः ।
समासः - हरितः अश्वाः यस्य स हरिदश्वः तद्वत् धाम यस्य स हरिदश्वधामा । अश्विनोः इव रूपमस्य सः अश्विरूपः । वेलायाः तटानि तेषु वेलातटेषु उषिताः सैनिकाः अश्वाश्च यस्य स तम् उषित सैनिकाश्वम् । पुरा विदन्तीति पुराविदः ।
हिन्दी - राजा शंखण के स्वर्ग जाने पर सूर्य के समान तेजस्वी और अश्विनीकुमार के समान अतिसुन्दर उनके पुत्र ने पिता के राज्यासन को प्राप्त किया । जिसने विजय यात्रा पूरी करके सागर के तटों पर अपने सैनिक और घोड़ों को विश्राम कराया था, अतः इतिहास के ज्ञाताओं ने उसका ठीक नाम व्युषिताश्व कहा था । व्युषिताश्व नाम रखा था ॥ २३ ॥
आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहो विजज्ञे ।
पातुं सहो विश्वसखः समग्रां विश्वंभरामात्मजमूर्तिरात्मा ॥ २४ ॥
तेन क्षितेरीश्वरेण व्युषिताश्वेन विश्वेश्वरं काशीपतिमाराध्योपास्य विश्वसहो नाम विश्वसखः समग्रां सर्वां विश्वंभरां भुवं पातुं रक्षितुं सहः क्षमः । पचाद्यच् । आत्मजमूर्तिः पुत्ररूप्यात्मा स्वयमेव । 'आत्मा वै पुत्रनामासि' इति श्रुतेः । विजज्ञे सुषुवे । विपूर्वी जनिर्गर्भविमोचने वर्तते । यथाह भगवान्पाणिनिः - ' समां समां विजायते' इति ।