________________
अष्टादशः सर्गः
४५७
आत्मजः= पुत्रः इति तदात्मजः वज्रं = कुलिशमिव नाभिर्यस्य स वज्रणाभः = एतन्नामा वज्राणां = हीरकाणाम् आकराः =खनयः = उत्पत्तिस्थानानि एव भूषणानि = आभरणानि यस्याः सा वज्राकरभूषणा तस्याः वज्राकरभूषणायाः पृथिव्याः = धरित्र्याः पतिः = स्वामी, राजा बभूव = जातः किल = खलु । “वजं दम्भोलौ हीरकेऽप्यस्त्री" इति कोषः ।
समासः-वज्रस्य धरः वज्रधरस्तस्य प्रभावः इव प्रभावो यस्य स वज्रधरप्रभावः । तस्य आत्मजः तदात्मजः। वज्र इव घोषो यस्य स वज्रघोषः। वज्राणामाकराः एव भूषणानि यस्याः सा तस्याः वज्राकरभूषणायाः । वज्र इव नाभिः यस्य स वज्रणाभः ।
हिन्दी-राजा उन्नाभ के पश्चात् उनका पुत्र बज्रणाभ, होरों की खान रूपी भूषणवाली पृथिवी का राजा हुआ । जो कि- वज्रधारी इन्द्र के समान प्रभाव वाला और युद्ध में वज्र के समान गरजने वाला विजली की कड़क के समान गर्जन करने वाला था ॥ २१ ॥
तस्मिन्गते धां सुकृत पलब्धां तत्संभवं शङ्खणमर्णवान्ता ।
उत्खातशत्रु वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥ २२ ॥ तस्मिन्वज्रणामे सुकृतोपलब्धां सुधर्माणितां यां स्वर्ग गते सति । उत्खातशत्रुमुद्धृतशत्रु शङ्खणं नाम तत्संभवं तदात्मजमर्णवान्ता वसुधा खनिभ्य आकरेभ्य उदितैरुत्पन्नै रत्नोपहारैरुत्कृष्ट वस्तुसमर्पणैरुपतस्थे सिषेवे । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते” इति भरतविश्वौ ।
अन्वयः-तस्मिन् सुकृतोपलब्धां द्यां गते सति उत्खातशत्रु शङ्खणम् तत्सम्भवं अर्णवान्ता वसुधा खनिभ्यः उदितैः रत्नोपहारैः उपतस्थे ।
व्याख्या--तस्मिन् = वज्रणामे सुकृतैः = पुण्यैः उपलब्धा = अजिंता प्राप्ता तां सुकृतोपलब्धां द्यां = स्वर्गलोकं गते =प्राप्ते सति उत्खाताः= उत्पाटिठाः = उद्धताः शत्रवः = अरयो येन सः उत्खातशत्रुस्तम् उत्खातशत्रु शङ्खणं = शंखणनामानं तस्मात् = वज्रणाभात् = सम्भवः= उत्पन्नस्तं तत्संभवम् = वज्रणाभपुत्रम् अर्णवः= समुद्रः अन्तः अवसानं यस्याः सा अर्णवान्ता=सागरावसाना वसूनि धारयतीति वसुधा=पृथिवी खनिभ्यः = आकरेभ्यः उदितैः= उत्पन्नैः रत्नानां = हीरकाद्युत्कृष्टवस्तूनाम् उपहाराः समर्पणानि तैः रत्नोपहारैः उपतस्थे = सिषेवे, समुपस्थितेत्यर्थः । स राजाभूदित्यर्थः।
समासः-सुकृतैः उपलब्धा सुकृतोपलब्धा तां सुकृतोपलब्धाम् । तस्मात् सम्भवस्तं तत्सम्भवम् । उत्खाताः शत्रवो येन स तम् उत्खातशत्रुम् । रत्नानामुपहारास्तैः ।
हिन्दी-राजा वज्रणाम के अपने शुभकर्म ( पुण्य ) से अर्जन ( प्राप्त ) किये स्वर्गलोक में चले जाने पर शत्रुओं को उखाड़ फेंकने वाले उनके शंखण नामक पुत्र को समुद्रपर्यन्त ( सारी) पृथिवी खान से निकले रत्नादि श्रेष्ठ वस्तुओं के उपहार ( भेंट ) लेकर उपस्थित हुई। अर्थात् उसने रत्नपूर्ण सारी पृथिवी का शासन किया ॥ २२ ॥