________________
४३६
रघुवंशे
जनाभकल्पो विष्णुसदृशः कृत्स्नस्य नृपमण्डलस्य नाभिः प्रधानम् । 'नाभिः प्रधाने कस्तूरीमदेऽपि क्वचिदीरितः' इति विश्वः । सुतोऽभवत् । 'अच्अत्यन्ववपूर्वात्सामलोम्नः' इत्यत्राजिति योगविभागादुन्नाभपद्मनाभादयः सिद्धाः ॥ __अन्वयः–तस्य उन्नाभ इति उद्गतनामधेयः आयथार्थोन्नतनाभिरन्ध्रः पङ्कजनाभकल्पः कृत्स्नस्य नृपमण्डलस्य नाभिः सुतः अभवत् ।
व्याख्या-तस्य = राशः शिलनामकस्य उन्नता आभा=कान्तिः तेजो यस्य सः उन्नाभः । उन्नतः = गभीरः नाभिर्यस्य सः उन्नाभः, इति उद्गतं = प्रसिद्धं नामधेयम् = नाम यस्य सः इत्युद्गतनामधेयः, नामेः = प्राण्यंगविशेषस्य रन्धं = छिद्रमिति नाभिरन्ध्रम् अन्वर्थ यथा तथा अर्थमनतिक्रम्य यथार्थ आ =समन्तात् यथार्थमिति आयथार्थ = उन्नतं = गम्भीरं नाभिरन्ध्र यस्य स आयथार्थोन्नतनाभिरन्ध्रः सर्वतः गम्भीरनाभिरन्द्य इत्यर्थः पंकात् जातं पंकजं = पद्मं नाभौ यस्य स पंकजनाभः, पंकजनाभेन कल्पः= सदृशः इति पङ्कजनाभकल्पः = विष्णुसमानः कृत्स्नस्य = समग्रस्य = नृपाणां = भूपालानां मण्डलं = द्वादशराजकं तस्य नृपमण्डलस्य नाभिः = प्रधानम् । “नाभिर्मुरख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामदे” इति मेदिनो। सुतः पुत्रः अभवत् = अभूत् ।
समासः-उन्नतः नाभिर्यस्य सः उन्नाभः। उन्नता आभा यस्य सः इति वा उन्नाभः । उद्गतं नामधेयं यस्य स उद्गतनामधेयः । आयथार्थम् उन्नतं नाभेः रन्ध्र यस्य स आयथार्थोन्नतनाभिरन्ध्रः। पङ्कजं नाभौ यस्य स पंकजनाभस्तेन ईषद् न्यूनः इति पंकजनाभकल्पः । नृपाणां मण्डलं तस्य नृपमण्डलस्य ।
हिन्दी--उन्नाभ, यह प्रसिद्ध नाम वाला, और यथार्थ से गहरी नाभि वाला, पद्मनाभविष्णु के समान तथा सारे भूमण्डल के राजाओं में प्रधान, ऐसा पुत्र शिल राजा को हुआ। अर्थात्-उन्नाभ = गहरीनाभि वाला, जैसा नाम था, यह यथार्थ का भाव है ॥ २० ॥
ततः परं वज्रधरप्रमावस्तदात्मजः संयति धज्रघोषः ।
वमव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणामः ॥ २१ ॥ ततः परं वज्रधरप्रभाव इन्द्रतेजाः संयति संग्रामे वज्रघोषोऽशनितुल्यध्वनिर्वज्रणाभो नाम तस्योन्नाभस्यात्मजो वज्राणां हीरकाणामाकराः खनय एव भूषणानि यस्यास्तस्याः पृथिव्याः पतिर्बभूव किल खलु । 'वज्रं त्वस्त्री कुलिशशस्त्रयोः। मणिवेधे रत्नभेदेऽप्यशनावासनान्तरे ॥' इति केशवः ॥
अन्वयः-ततः परम् वज्रधरप्रभावः संयति वज्रघोषः तदात्मजः वज्रणाभः वज्राकरभूषणायाः पृथिव्याः पतिः बभूव किल।
व्याख्या-ततः परम् = उन्नाभानन्तरम् धरतीति धरः, वज्रस्य = अशनेः धरः= धारकः इति वज्रधरः = इन्द्रः, तद्वत् प्रभावः=प्रतापो यस्य स वज्रधरप्रभावः = इन्द्रसमानतेजस्वीत्यर्थः । संयति= युद्धे वज्रवत् = अशनिवत् घोषः = ध्वनिर्यस्य स वज्रघोषः तस्य = उन्नाभस्य