________________
अष्टादशः सर्गः
४४१
अन्वयः-उत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य सोमसुतः तस्य द्वितीयः सोमः इव नेत्रोत्सवः कौसल्य इति औरसः सुतः अभूत् ।
व्याख्या-उत्तरे च ते कोसलाः उत्तरकोसलास्तेषाम् उत्तरकोसलानाम् = अयोध्याप्रदेशानां पत्युःस्वामिनः राज्ञः पतति = आकाशे गच्छतीति पतंगः । पतंगस्य = सूर्यस्य अन्वयः = वंशस्तस्य भूषणम् = आभरणं तस्य पतंगान्वयभूषणस्य "पतंगः पक्षिसूर्ययोः" इत्यमरः। सोमं सुत- . वानिति सोमसुत् तस्य सोमसुतः = यज्वनः तस्य = हिरण्यनाभस्य द्वितीयः = अपरः सोमः = चन्द्रः इव =यथा उत्सुवतीति उत्सवः। नेत्राणाम् = चक्षुषाम् उत्सवः= आनन्दप्रदः इति नेत्रोत्सवः कौ = पृथिव्यां सलति = उत्कर्ष गच्छतीति कौसलः = जनपदविशेषः तस्यायं कौसल्यः इति नाम्ना प्रसिद्धः, उरसा निर्मितः स्वस्मात् स्वपाणिगृहीत्यां जनितः औरसः सुतः= पुत्रः अभूत् = जातः ।
समासः-उत्तरे च ते कोसलाः उत्तरकोसलास्तेषाम् उत्तरकोसलानाम् । पतंगस्यान्वयः पतंगान्वयस्तस्य भूषणं तस्य पतंगान्वयभूषणस्य । नेत्रणाम् उत्सवः नेत्रोत्सवः ।।
हिन्दी-उत्तर कोसल के अधिपति ( शासक ) और सूर्यवंश के भूषण, सोमयाग करने वाले, उस राजा हिरण्यनाभ को कौसल्य नामक औरस पुत्र हुआ, जो कि सबके नेत्रों को आनन्द देने वाला ऐसा था मानो दूसरा चन्द्रमा हो ॥ २७ ॥
यशोभिराब्रह्मसमं प्रकाशः स ब्रह्मभूय गतिमाजगाम ।
ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥ २८ ॥ आ ब्रह्मसभाया आब्रह्मसभं ब्रह्मसदनपर्यन्तम् । अभिविधावव्ययीभावः। यशोभिः प्रकाशः प्रसिद्धः स कौशल्योऽतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम् । ब्रह्मविदमित्यर्थः ब्रह्मशब्दान्मतुबन्तादिष्ठन्प्रत्यये "विन्मतोलुक्' इति मतुपो लुक् । 'नस्तद्धिते' इति टिलोपः। ब्रह्मिष्ठं ब्रह्मिष्ठाख्यं स्वतनुप्रसूतं स्वात्मजमेव निजे स्वकीयेऽधिकारे प्रजापालनकृत्य आधाय निधाय । ब्रह्मणो भावो ब्रह्मभूयं ब्रह्मत्वं तदेव गतिस्तामाजगाम । मुक्तोऽभूदित्यर्थः। 'स्याद्ब्रह्मभूयं ब्रह्मत्वम्' इत्यमरः। भुवो भावे क्यप् ॥
अन्वयः-आब्रह्मसभं यशोभिः प्रकाशः सः ब्रह्मिष्ठं ब्रह्मिष्ठम् स्वतनुप्रसूतम् एव निजे अधिकारे आधाय, ब्रह्मभूयं गतिम् आजगाम ।
व्याख्या-ब्रह्मणः सभा ब्रह्मसभम् , ब्रह्मसभम् आ इति आब्रह्मसभम् = आब्रह्मसदनम् , ब्रह्मलोकपर्यन्तमित्यर्थः। यशोभिः = कोर्तिभिः प्रकाशः = प्रसिद्धः सः = कौसल्यः ब्रह्म अस्ति अस्यासौ ब्रह्मवान् = ब्रह्मशानी, अतिशयेन ब्रह्मवान् इति ब्रह्मिष्ठस्तं ब्रह्मिष्ठं = ब्रह्मविदम् ब्रह्मिष्ठं =ब्रह्मिष्ठनामानं स्वा चासौ तनुः इति स्वतनुः स्वतनोः= स्वदेहात् प्रसूतः = उत्पन्नस्तं स्वतनुप्रसूतं = स्वतनयमेव निजे स्वकीये अधिकार प्रजाशासने रक्षणरूपे आधाय= संस्थाप्य, नियुज्येत्यर्थः । ब्रह्मणो भावः ब्रह्मभूयं ब्रह्मत्वं तदेव गतिः =प्राप्तिस्तां मोक्षमित्यर्थः आजगाम = प्राप्तः। मोक्ष प्राप इत्यर्थः।