________________
४२४
रघुवंशे
व्याख्या-उरु = अतिशयं वीर्य = शक्तिः , पराक्रमो यस्य स तेन उरुवीर्येण अत एव प्रजायै = लोकरक्षायै कल्पिष्यते इति कल्पिष्यमाणस्तेन कल्पिष्यमाणेन = समर्थन भविष्यता तेन = युव. राजेन यूना- तरुणेन-निषधेन पातीति पिता राजा अतिथिः, सुवृष्टेः = सुवर्षणस्य योगः = सम्प्राप्तिस्तस्मात् सुवृष्टियोगात् सम्पत्तेः धान्यादिरूपसम्पदः फलोन्मुखं = परिपाकोन्मुखं यत्तत्तेन सम्पत्तिफलोन्मुखेन सस्येन = फलेन जीवानां = प्राणिनां लोकः = वर्गः समूहः इति जीवलोकः इव = यथा ननन्द = जहर्ष अतिप्रसन्नो जातः इत्यर्थः ।
समासः-उरु वीर्य यस्य स तेन उरुवीर्येण । सु शोभना वृष्टिः सुवृष्टिस्तस्याः योगस्तस्मात् सुवृष्टियोगात् । जीवानां लोकः जोवलोकः। सम्पत्तीनां फलं तत्र उन्मुखं यत्तत्तेन सम्पत्तिफलोन्मुखेन।
हिन्दी-विशाल पराक्रमशाली अतएव आगे चलकर प्रजा की रक्षा करने में समर्थ उस जवान निषध पुत्र से राजा अतिथि उसी प्रकार प्रसन्न हुए, जैसे अच्छी वर्षा होने से फल देने को तैयार ( पकने को तैयार ) धान को देखकर सभी प्राणी प्रसन्न होते हैं । अर्थात् अच्छी वर्षा से अच्छी खेती को देखकर प्रसन्न होते हैं ॥ २ ॥
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
कौमुद्वतेयः कुमुदावदातैमर्जितां कर्मभिरारुरोह ॥ ३ ॥ कुमुदत्या अपत्यं पुमान्कौमुद्रतेयोऽतिथिः शब्दादि शब्दस्पर्शादि सुखं सुखसाधनं विषयवर्ग निविंश्योपभुज्य चिराय तस्मिन्निषधाख्ये पुत्र प्रतिष्ठापितराजशब्दो दत्तराज्यः सन्। कुमुदावदातैर्निर्मलैः कर्मभिरश्वमेधादिभिरर्जितां संपादितां यां स्वर्गमारुरोह ॥
अन्वयः-कौमुद्वतेयः शब्दादि सुखं निर्विश्य, चिराय तस्मिन् प्रतिष्ठापितराजशब्दः सन् कुमुदावदातैः कर्मभिः अर्जितां द्याम् आरुरोह ।
व्याख्या-कौः पृथिव्यां मोदन्ते इति कुमुदानि - कैरवाणि सन्त्यस्याः सा कुमुदती । कुमुद्वत्या अपत्यं पुमान् कौमुद्वतेयः = कुमुदतीपुत्रोऽतिथिः शब्दादि = शब्दादिविषयजन्यं सुखम् = आनन्दम् निर्विश्य = उपभुज्य अनुभूय चिराय = बहुकालम् तस्मिन् = निषधनामके, पुत्र प्रतिष्ठापितः = प्रदत्तः राजशब्द: राज्यं येन स प्रतिष्ठापितराजशब्दः, सन् अवदायतेस्म इति अवदातः = धवल: “अवदातः सितो गौरोवलक्षोधवलोऽर्जुनः" इत्यमरः । कुमुदानि श्वेतकमलानि इव अवदातानि = निर्मलानि यानि तैः कुमुदावदातेः कर्मभिः = क्रियाभिः पुण्यरित्यर्थः अर्जितां = सम्पादितां यां= दिवं-स्वर्गम् आरुरोह = आरूढवान् , स्वर्ग गत इत्यर्थः ।
समासः-कुमुदानि इव अवदातानि तैः कुमुदावदातैः । राजा इति शब्दः राजशब्दः प्रतिष्ठापितः राजशब्दः येन स प्रतिष्ठापितराजशब्दः । शब्दः आदिः यस्य तत् शब्दादि ।
हिन्दी-कुमुद्रती महारानी के पुत्र राजा अतिथि ने बहुत दिनों तक शब्द स्पर्श आदि विषयों के सुख को भोग करके तथा अपने पुत्र निषध को राज्य देकर ( अच्छी प्रकार उसे