________________
अष्टादशः सर्गः यत्पादपांसुसंपर्कादहल्यासीदपांसुला।
कारुण्यसिन्धवे तस्मै नमो वैदेहिबन्धवे ॥ स नैषधस्यापते: सुतायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुनिषधाख्यमेव ॥ १ ॥ निषिद्धशत्रुर्निवारितरिपुः सोऽतिथिनैषधस्य निषधदेशाधीश्वरस्यार्थपते राशः सुतायां निषधान्निषधाख्यान्नगेन्द्रात्पर्वतादनूनसारमन्यूनबलं पुत्रमुत्पादयामास । वं पुत्रं निषधाख्यं निषध. नामकमेवाहुः ॥
अन्वयः-निषिद्धशत्रुः सः नैषधस्य अर्थपतेः सुतायां निषधात् नगेन्द्रात् अनूनसारं पुत्रम् उत्पादयामास यं निषधाख्यम् एव आहुः।
व्याख्या-निषिद्धाः = निवारिताः विजिताः इत्यर्थः शत्रवः-रिपवः येन स निषिद्धशत्रुः सः= अतिथिः निषीदतीति निषधः= कठिनः, देशश्च, "निषधः कठिने देशे तद्राजे पर्वतान्तरे" इति विश्वमेदिन्यौ। निषधस्य = देशस्य राजा नैषधः तस्य नैषधस्य = निषधदेशाधिपस्य राज्ञः अर्थानां पतिः अर्थपतिस्तस्य अर्थपतेः = एतन्नामकस्य सुतायां = पुत्र्यां निषधात् = एतन्नामकात् नगानाम् = पर्वतानाम् इन्द्रः =श्रेष्ठस्तस्मात् नगेन्द्रात् = पर्वतात् ऊनयतीति ऊनः न ऊन इति अनूनः = अन्यूनः सारः = बलं यस्य सः अनूनसारस्तम् अनूनसारं पुत्रं = सुतम् उत्पादयामास = जनयामास । यं = पुत्रं निषधः आख्या = नाम यस्य स निषधाख्यस्तं निषधाख्यम् = निषधनामानम् एव आहुः कथयन्तिस्म लोका इति शेषः।
समासः-अर्थानां पतिः अर्थपतिस्तस्य अर्थपतेः। निषिद्धाः शत्रवो येन स निषिद्धशत्रुः। अनूनः सारः यस्य स तम् अनूनसारम् । नगानाम् इन्द्रः नगेन्द्रस्तस्मात् । निषधः आख्या यस्य स तं निषधाख्यम्।
हिन्दी-शत्रओं को जीतनेवाले राजा अतिथि ने निषध देश के राजा अर्थपति की पुत्री में (पुत्री से ) निषध नामक पर्वत के समान बलशाली पुत्र को पैदा किया। और उस पुत्र का नाम निषध ही कहते हैं । अर्थात् पुत्र का नाम भी निषध ही रखा ॥ १॥
तेनोरुवीर्येण पिता प्रजाय कल्पिग्यमाणेन ननन्द यूना।
सुवृष्टियोगादिव जीवलोकः सस्येन संपत्तिफलेन्मुखेन ॥ २ ॥ उरुवीर्येणातिपराक्रमेणात एव प्रजायै लोकरक्षणार्थ कल्पिष्यमाणेन तेन यूना निषधेन पितातिथिः सुवृष्टियोगात्संपत्तिफलोन्मुखेन सस्येन जीवलोक इव । ननन्द जहर्ष ॥ ___अन्वयः-उरुवीर्येण अत एव प्रजायै कल्पिष्यमाणेन तेन यूना पिता सुवृष्टियोगात् सम्पत्तिफलोन्मुखेन सस्येन जीवलोक इव ननन्द ।