________________
अष्टादशः सर्गः
४२५
राजा बनाकर ) सुफेद कमलों के समान अपने उज्वल पुण्य से प्राप्त किए हुए स्वर्ग को प्राप्त कर लिया । अर्थात् स्वर्ग में पधार गया ॥ ३ ॥
पौत्रः कुशस्यापि कुशेशयाक्षः सस.गरां सागरधीरचेताः।
एकातपत्रां भुवमेकवीर पुरार्गलादीर्घभुजो बुभोज ॥ ४ ॥ कुशेशयाक्षः शतपत्रलोचनः । 'शतपत्रं कुशेशयम्' इत्यमरः । सागरधीरचेताः समुद्रगम्भीरचित्त एकवीरोऽसहायशूरः पुरस्यार्गला कपाटविष्कम्भः । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः । तद्वद्दीर्घभुजः कुशस्य पौत्रो निषधोऽपि ससागरामेकातपत्रां भुवं बुभोज पालयामास । 'भुजोऽनवने' इत्युक्ते परस्मैपदम् ।
अन्वयः-कुशेशयाक्षः सागरधीरचेताः एकवीरः पुरार्गलादीर्घभुजः कुशस्य पौत्रः अपि ससागराम् एकातपत्रां भुवं बुभोज ।
व्याख्या-कुशे = जले शेरते इति कुशेशयानि = कमलानि इव अक्षिणी नेत्रे यस्य स कुशेशयाक्षः = शतपत्रनेत्रः “सहस्रपत्रं कमलं शतपत्रं कुशेशयमि"त्यमरः । सगरस्य राज्ञोऽपत्यं सागरः। न गरः अगरः, अगरेण = अमृतेन सह, मणिना वा सह सागरः=समुद्रः इव धोरं = गम्भीरं चेतः = चित्तं मनः यस्य स सागरधीरचेताः एकः = अद्वितीयश्चासौ वीरः शूरः इति एकवीरः= अद्वितीयभटः पुरस्य = नगरस्य अर्गला = कपाटविष्कम्भ इव दीवौं = आयतौ विशालौ इत्यर्थः । भुजौ = बाहू यस्य स पुरार्गलादीर्घभुजः कुशस्य =राज्ञः रामपुत्रस्य पौत्रः पुत्रस्य पुत्रः निषधनामा अपि सागरेण सहिता ससागरा तां ससागरां = ससमुद्राम् एकं आतपत्रं छत्रं यस्याः सा ताम् एकातपत्राम् भुवं = पृथिवीं बुभोज = पालयामास ।
समासः-कुशेशयमिव अक्षिणी यस्य स कुशेशयाक्षः । सागरेण सहिता ससागरा तां ससागराम् । सागर इव धीरं चेतो यस्य स सागरधीरचेताः। एकम् आतपत्रं यस्याः सा ताम् एकातपत्राम् । एकश्चासौ वीरः एकवीरः। पुरस्य अर्गला पुरार्गला, तद्वत् दीर्थों भुजौ यस्य स पुरार्गलदीर्घभुजः।
हिन्दी-कमल के समान सुन्दर नेत्रवाले और समुद्र के समान गम्भीर हृदय वाले तथा नगर के प्रधान द्वार के मूसल ( आगल किल्ली ) के समान विशाल भुजा वाले अद्वितीय वीर. कुश के पौत्र ( पोते ) निषध ने भी समुद्रपर्यन्त एकच्छत्र होकर पृथिवी का पालन किया। अर्थात् एकच्छत्र होकर समग्र पृथिवी का राज्य किया ॥ ४ ॥
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।।
यो नड्वलानीव गजः परेषां बलान्यमृद्ान्नलिनामवक्त्रः ॥ ५॥ अनलौजा नलाभिधानो नलाख्यस्तस्य निषधस्य तनयस्तस्य निषधस्यान्तेऽवसाने वंशश्रियं राज्यलक्ष्मी प्राप । नलिनाभवक्त्रो यो नलः । गजो नड्वलानि नडप्रायस्थलानीव । 'नडशादाड्ड्वलच्' इति ड्वलच्प्रत्ययः। परेषां बलान्यमृगान्ममर्द ॥