________________
[ प्रथमः सर्गः
१
पादनस्य सामर्थ्ये सत्यपि नन्दिनीशुश्रूषारूपव्रतकारणेन कुशादिभिरेव दिलीपस्य शय्या संपादिता ।
हिन्दी -- व्रत प्रयोग में कुशल मुनि वसिष्ठ ने तप की सिद्धि से राजाओं के योग्य शय्या तैयार कर देने की सामर्थ्य होने पर भी दिलीप के लिये वन्दिनीसेवा रूप व्रत का ध्यान रखते हुए कुशाओं के बिछौने का ही प्रबन्ध किया ॥ ९४ ॥ निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ॥ ६५ ॥
1
सञ्जीविनी -- स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्ठाय तस्यामधिष्ठानं कृत्वेत्यर्थः । 'अधिशीङ' इत्यादिनाधारस्य कर्मत्वम् । कर्मणि द्वितीया । प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः । कुशानां शयने संविष्टः सुप्तः सन् । तस्य वशिष्ठस्य शिष्याणामध्ययनेनापररात्रे वेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास । अपररात्रेऽध्ययने मनुः - 'निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्' इति गौतमश्च । प्रहर्षिणीवृत्तमेतत् । तदुक्तम् —म्रो जो गस्त्रिदशय तिः प्रहर्षिणीयम् ॥
अन्वयः --- प्रयतपरिग्रहद्वितीयः, सः, कुलपतिना, निर्दिष्टाम्, पर्णशालाम् अध्यास्य, कुशशयने, संविष्ट:, 'सन्' तच्छिष्याध्ययननिवेदितावसानाम् निशाम्, निनाय ।
वाच्य० - - प्रयतपरिग्रहद्वितीयेन तेन संविष्टेन तच्छिष्याध्ययननिवेदितावसाना निशा निन्ये ।
व्याख्या - प्रयतः = पवित्रः परिग्रहः = भार्या एव द्वितीयः = अपरः, सहायक इत्यर्थः यस्य सः, प्रयतपरिग्रहद्वितीयः, सः = 1 - दिलीपः, कुलस्य = मुनिसमूहस्य पतिः = स्वामी, कुलपतिः, तेन कुलपतिना, मुनिकुलेश्वरेणेत्यर्थः, निर्दिष्टाम् = विज्ञापिताम्, पर्णानाम् = पत्राणाम् शाला =' - भवनम् पर्णशालाताम् पर्णशालाम्, अध्यास्य = अधिष्ठाय, कुशानाम् = कुथानाम्, शयनम् = शय्या, कुशशयनम्, तस्मिन् कुशशयने, संविष्टः = सुप्तः, 'सन्' तस्य = वशिष्ठस्य, शिष्या = छात्राः