________________
रघुवंशमहाकाव्ये
अजितश्रियम्, विशाम् = मनुजानाम्, पतिम् = स्वामिनम्, राजानं दिलीपम्, संवेशाय = स्वापाय, विससर्ज = आज्ञापयामास ।
समा०-दोषान् जानाति इति दोषज्ञः सूनृता वाक् यस्य सः सूनृतवाक्, सृजति इति स्रष्टा तस्य स्रष्टुः । ऊर्जिता श्रीः यस्य सः जितश्री:, तम् अजितश्रियम् ।
अभि०--अनन्तरं च रात्री सत्यप्रियवचनो वसिष्ठः सम्पत्तिसम्पन्नं राजानं निद्रार्थमाज्ञापितवान् ।
हिन्दी-तब रात्रि के समय सत्यप्रियभाषी वसिष्ठने लक्ष्मीसंपन्न राजा दिलीप को सोने के लिये आज्ञा दी ॥१३॥
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः ।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥१४॥ सञ्जीविनी--कल्पविद्वतश्योगाभिज्ञो मुनिः तपःसिद्धौ सत्यामपि । तपसैव राजयोग्याहारसंपादनसामर्थ्य सत्यपीत्यर्थः । नियमापेक्षया तदाप्रभूत्येव व्रतचर्यापेक्षया । अस्य राज्ञो वन्यामेव । संविधीयतेऽनयेति संविधाम् कुशादिशयनसामप्रीम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । 'अकर्तरि च कारके संज्ञायाम' इति कर्माद्यर्थत्वम् । कल्पयामास संपादयामास ॥१४॥
अन्वयः--कल्पवित्, मुनिः, तपःसिद्धौ, सत्याम्, मपि, नियमापेक्षया, अस्य, बन्याम्, एव, संविधाम, कल्पयामास ।
वाच्य० - कल्पविदा, मुनिना, वन्या, एव, संविधा, चक्लपे।
व्याख्या- कल्पम् = व्रतप्रयोगम् वेत्ति =जानाति इति कल्पवित् मुनिः = वेदशास्त्रार्थतत्त्ववित्, वसिष्ठः, तपसः= तपश्चर्यायाः, सिद्धिः निष्पत्तिः इति तपःसिद्धिः तस्याम् तपःसिद्धौ, सत्याम् विद्यमानायाम् अपि नियमस्य = व्रताचरणस्य अपेक्षा तदृष्ट्या विचारणम् इति नियमापेक्षा तया नियमापेक्षया अस्य = दिलीपस्य, वने = अरण्ये भवा वन्या ताम् वन्याम् एव, संविधाम् = कुशास्तरणसामग्रीम्, कल्पयामास = रचयामास ।
समा०-कल्पम् वेत्ति इति कल्पवित्, तपसः सिद्धिः तपःसिद्धिः, तस्याम् तपःसिद्धौ। नियमस्य अपेक्षा तया नियमापेक्षया। वने भवा वन्या ताम् वन्याम् ।
अभि०-व्रतप्रयोगविदा मुनिना वसिष्ठेन तपासिद्धघा राजोचितशय्यासं