________________
प्रथमः सर्गः कालो, तो जानाति = वेत्ति इति देशकालज्ञः, 'अतएव' प्रीतिः= हर्षः अस्य अस्ति इति प्रीतिमान्, शासितुम् = अनुशासनं कर्तुम्, योग्य: शिष्यः अन्तेवासी, इत्यर्थः, परिग्रहेण = भार्यया सह वर्तते इति सपरिग्रहः । आनतः अतिनम्रः 'सन्' शासितुः-शासनकर्तः गरोर्वसिष्ठस्येत्यर्थः, आदेशमआज्ञाम, तथा तेनैव प्रकारेण, 'अस्तु' इति = इत्थम्, प्रतिजग्राह =स्वीचकार ।
समा०-देशश्च कालश्च देशकालो, देशकालौ जानाति इति देशकालज्ञः, प्रीतिः अस्य अस्ति इति प्रीतिमान्, शासितुम् योग्यः शिष्यः, परिग्रहेण सह वर्तते इति सपरिग्रहः।
अभि०-देशकालवित्सभार्यो दिलीपः प्रसन्नः सन्, गुरोर्वसिष्ठस्याज्ञां विनयावनतो भूत्वा जग्राह।
हिन्दी--देश तथा काल के मर्मज्ञ राजा दिलीप ने प्रसन्न होकर सुदक्षिणा सहित बड़ी नम्रतापूर्वक गुरुवसिष्ठ के आदेश को स्वीकार किया ॥२॥
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्टुर्विससोर्जितश्रियम् ॥१३॥ सञ्जीविनी--अथ प्रदोषे रात्रौ दोषज्ञो विद्वान् । 'विद्वान्विपश्चिद्दोषशः' इत्यमरः । सूनृतवाक्सत्यप्रियवाक् । 'प्रियं सत्यं च सूनृतम्' इति हलायुधः । स्रष्टः सूनुर्ब्रह्मपुत्रो मुनिः। अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति । ऊजितश्रियं विशांपति मनुजेश्वरम् । 'दो विशी वैश्यमनुजी' इत्यमरः । संवेशाय निद्राय । 'त्यान्निद्रा शयनं स्वाप: स्वप्न: संवेश इत्यपि' इत्यमरः । विससर्जाज्ञापयामास ॥१३॥ __अन्वयः--अथ, प्रदोष, दोषः, सून्तवाक्लष्टः, सूनः, अजितश्रियम्, विशाम्, पतिम्, संवेशाय, विससर्ज :
पाच्य०-दोषज्ञेन, सूनुतवाचा, स्रष्टुः सूनुना, ऊर्जितश्रीः, विशांपतिः, संवेशाय, विससूजे।
व्याल्या--अथ = अनन्तरम्, प्रदो'= रात्री, दोषान् = अवगुणान् जानाति वेत्ति इति दोषः, विद्वान्, इत्यर्थः, 'विद्वान्विपश्चिद्दोषशः' इत्यमरः, सूनुता= प्रिया सत्या चं, 'प्रियं सत्यं च सूनृतम्' इत्यमरः, वाक् = वाणी यस्य असो, सूनृतवाक, सूजति = सृष्टि करोति, इति स्रष्टा=ब्रह्मा तस्य स्रष्टुः सूनुः पुत्रः, वसिष्ठ इत्यर्थः, ऊजिता = अषिका श्री:= शोभा, यस्य असौ अजितश्रीः, तम्,