________________
८९
रघुवंशमहाकाव्ये वाच्य०-त्वया, परिचर्यापरेण, भूयताम्, अविघ्नेन, भूयताम, पिता, इव, स्थीयताम् ।
व्याख्या-इति = इत्थम्, त्वम् = दिलीपः, प्रसादम् = प्रसन्नताम्, अभिव्याप्य, इति आप्रसादम्, वरप्रदानपर्यन्तमित्यर्थः, अस्याः एतस्याः, नन्दिन्याः, परिचर्यायाम् = शुश्रूषायाम्, पर:=संलग्नः, इति परिचर्यापरा भवः= भवः, ते= तव, दिलीपस्य, विघ्नानाम् = प्रतिबन्धानाम्, अभावः, अविघ्नम्, बस्तु= भवतु, पिता= जनका, इव = यथा, पुत्राः= सुताः एषां सन्ति इति पुत्रिणः, तेषाम् पुत्रिणाम्, धुरि= अने, स्थेयाः-तिष्ठेः ।
समा०-प्रसादम् अभिव्याप्य आप्रसादम् । परिचर्यायाम् परः परिचर्यापरः। विघ्नानाम्, अभावः अविघ्नम्, प्रशस्ताः पुत्राः सन्ति एषामिति पुत्रिणः, तेषाम् पुत्रिणाम् ।
अभि०--मयोक्तेन विधिना त्वमस्याः प्रसादपर्यन्तं सेवां कुरु । ते विघ्ना नश्यन्तु । तव पितेव शोभनपुत्रवतां त्वं श्रेष्ठो भवः ।
हिन्दी- मेरी बतलाई विधि के अनुसार प्रसन्न होने तक तुम इसकी सेवा करो। तुम्हारे विघ्न नष्ट हों। अपने पिता के समान तुम भी पुत्रवालों में श्रेष्ठ होओ॥१॥
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥२॥ सञ्जीविनी-देशकालज्ञः । देशोऽग्निसंनिधिः, कालोऽग्निहोत्रावसानसमयः। विशिष्टदेशकालोत्पन्नमार्ष ज्ञानमव्याहतमिति जानन् । अत एव प्रीतिमाशिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । आनतो विनयनम्रः-सन् । शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार ॥९२॥
अन्वयः-देशकालज्ञः, प्रीतिमान, शिष्यः, सपरिग्रहः, आनतः, 'सन्', शासितुः भावेशम्, तथा, इति, प्रतिजग्राह ।
वाच्य० - देशकालज्ञेन, प्रीतिमता, शिष्येण, सपरिग्रहेण, धानतेन, 'सता', आदेशः, प्रतिजगृहे।
व्याख्या-देशः= अग्निसन्निधिश्च, काल:= अग्निहोत्रावसानसमयश्च, देश