________________
प्रथमः सर्गः
सञ्जीविनी - वधूर्जाया च भक्तिमती प्रयता सती गन्धादिभिरचितामेनां गां प्रातरा तपोवनात् । आङ मर्यादायाम् । पदद्वयं चैतत् । अन्देरवनुगच्छतु । सायमपि प्रत्युद्वजेत् प्रत्युद्गच्छेत् । विध्यर्थे लिङ ॥६०॥
अन्वयः -- वधूः, भक्तिमती, प्रयता, च, 'सती' अचिताम्, एनाम्, प्रातः, आ, तपोवनात्, अन्वेतु, सायम् अपि प्रत्युद्व्रजेत् ।
वाच्य० - वध्वा, भक्तिमत्या, प्रयतया, 'सत्या', अचिता, एषा, प्रातः, अन्वीयताम्, प्रत्युज्येत।
८७
व्याख्या - वधूः = स्नुषा, भक्तिः = श्रद्धा अस्ति अस्याः इति भक्तिमती, प्रयता = पवित्रा, च = अपि अर्चिताम् = पूजिताम्, एनाम् = नन्दिनीम्, प्रातः = प्रातःकाले, आ तपोवनात् = तपोवनपर्यन्तम्, अन्वेतु = अनुगच्छतु, सायम् = सन्ध्यासमये, अपि = [ = तथा, प्रत्युद्व्रजेत् = प्रत्युद्गच्छेत् । समा० -भक्तिः अस्ति अस्याः इति भक्तिमती ।
---
अभि० -- स्नुषा सुदक्षिणाऽपि पवित्रा सती भक्त्यैनां संपूज्य प्रातस्तपोवनसीमापर्यन्तमनुगच्छतु, सायं चास्या आगमनसमये तपोवनसीमायां स्थिता स्वागतपूर्वकमेवामाश्रममानयतु ।
हिन्दी - वधू सुदक्षिणा भी पवित्र होकर भक्तिपूर्वक इसकी पूजा करके प्रतिदिन प्रातःकाल तपोवन की सीमा तक इसे पहुँचाने जाये तथा सायंकाल के समय भी तपोवन की सीमापर पहुँचकर इसे स्वागत पूर्वक आश्रम में लाये ॥९०॥ इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव ।
विघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ ६१ ॥
सञ्जीविनी -- इत्यनेन प्रकारेण त्वमा प्रसादात्प्रसादपर्यन्तम् । 'आज मर्यादाभिविध्यो,' इत्यत्र वैभाषिकत्वादसमासत्वम् । अस्या धेनोः परिचर्यापरः शुश्रूषापरो भव । ते तवाविघ्नं विघ्नस्याभावोऽस्तु । 'अव्ययं विभक्ति -' इत्यादिनार्थीभावेऽव्ययीभावः । पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिनिप्रत्ययः । घुर्य स्थेयास्तिष्ठेः । आशीरर्थे लिङ । 'एलिङि' इत्याकारस्यैकारादेशः । त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः ॥ ९१ ॥
अन्वयः - इति, त्वम्, आप्रसादात्, अस्याः परिचर्यापरः, भव, ते, अविघ्नम् वस्तु, पिता, इव, पुत्रिणाम्, बुरि, स्थेयाः ।
●