________________
रघुवंशमहाकाव्ये राजन्, तुम भी निरन्तर इस गाय का अनुसरण कन्द, मूल, फल खाकर करते हुए इसे प्रसन्न करो ॥८॥ गोरनुसरणप्रकारमाह
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः ।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥८६॥ सञ्जीविनी--अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । स्थितायां निवृत्तगतिकायां स्थितिमाचरे: स्थिति कुरु । तिष्ठेत्यर्थः । निषण्णायामुपविष्टायां निषीदोपविश । विध्यर्थे लोट । पीताम्भसि सत्यामपः पिबेः पिब ।।८।।
अन्वयः--अस्याम्, प्रस्थितायाम्, प्रतिष्ठेथाः स्थितायाम्, स्थितिम्, आचरेः, निषण्णायाम, निषीद, पीताम्भसि, अपः, पिबेः ।
वाच्य-स्वया' प्रतिष्ठीयेत, स्थिति: आचर्येत, निषद्यताम्, आप: पीयेरन् ।
व्याख्या--अस्याम् = एतस्यां नन्दिन्याम्, प्रस्थितायाम् =प्रचलितायाम, 'सत्याम' 'त्वम्' प्रतिष्ठेथाः =प्रस्थानं कुरु, स्यितायाम् = गमनान्निवृत्तायाम्, 'सत्याम्' स्थितिम् = गमनान्निवृत्तिम्, आचरेः = कुर्याः, तिष्ठेत्यर्थः, निषण्णायाम् = उपविष्टायाम्, 'सत्याम्' निषीद = उपविश, पीतम् = पानविषयी कृतम्, अम्भः= जलम्, यया सा पीताम्भाः, तस्याम् पीताम्भसि, 'सत्याम्',अपः= जलानि पिब-पानं कुरु ।
समा०-पीतम् अम्भः यया सा पीताम्भाः, तस्याम् पीताम्भसि।
अभि०--यदेयं प्रचलति तदा त्वमपि प्रचल, यदा च तिष्ठति तदा तिष्ठ, एवं यदा निषीदति तदा निषीद तथा यदा जलं पिबति तदेव त्वमपि जलं पिबेति छायावदेनामनुसर।
हिन्दी--हे राजन्, जब यह चले तब चलना, जब खड़ी हो तो खड़े होना, जब बैठे तो बैठना, जब जल पी चुके तब जल पीना, इस प्रकार छाया के अनुसार इसका अनुसरण करना ॥९॥
वधूभक्तिमती चैनामर्चितामा तपोवनात् । प्रयता प्रातरन्वेतु सायं प्रत्युद्वजेदपि ॥६॥