________________
प्रथमः सर्गः
वतिनीम्, विगणयजानीहि, यत् = यस्मात्, इयम् =एषा, कल्याणी=मङ्गलमूर्तिः, नाम्नि = अभिधाने, कीर्तिते= कथिते, एव, उपस्थिताप्राप्ता ।
समा०-न दूरे वर्तते तच्छीला अदूरवर्तिनी ताम् अदूरवर्तिनीम् ।
अभि०- हे राजन्निदानीं ते मनोरथसिद्धिरविलम्बमेव भविष्यति यत एषा मङ्गलमयी नन्दिनी मया नाम्न्युच्चारिते सत्येव सम्मुखमागता।
हिन्दी--हे राजन्, अब आप अपनी मनोरथ सिद्धि शीघ्र ही पूर्ण हुई समझो, क्योंकि यह मङ्गलमूर्ति बन्दिनी नाम लेते ही सामने आ गई ॥८७॥
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥८॥ सञ्जीविनी--वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन् । इमां गां शश्वत्सदा । आ प्रसादादविच्छेदेनेत्यर्थः । आत्मनस्तव कर्तुः अनुगमनेनानुसरणेन । अभ्यसनेनानुष्ठातुरभ्यासेन विद्यामिव । प्रसादयितुं प्रसन्नां कर्तुमर्हसि ॥
अन्वयः-वन्यवृत्तिः, 'सन्', इमाम् गाम, शश्वत्, आत्मानुगमनेन, अभ्यसनेन, विद्याम्, इव, प्रसादयितुम्, अर्हसि ।।
वाच्य०-वन्यवृत्तिना 'सता' इयम् गौः प्रसादयितुम् अहते।
व्याल्या--वने = अरण्ये, भवम्, वन्यम्, कन्दमूलादिकमित्यर्थः, वृत्तिः%3 भोजनम् यस्यासो वन्यवृत्तिः, 'सन्' इमाम् = पुरोवर्तिनीम्, गाम् = धेनुम् नन्दिनीम्, शश्वत् = निरन्तरम्, आत्मनः = स्वस्य अनुगमनम् = पश्चाद्यानम्, इति आत्मानुगमनम् तेन आत्मानुगमनेन, अभ्यसनेन = अभ्यासेन, अनुष्ठातुरिति शेषः, विद्याम् = शास्त्रम्, इव = यथा, प्रसादयितुम् = प्रसन्नां कर्तुम्, अर्हसि = योग्यो भवसि ।
समा०--वने भवम् वन्यम्, वन्यम् वृत्तिः यस्यासो वन्यवृत्तिः । आत्मनः अनुगमनम् आत्मानुगमनम् तेन आत्मानुगमनेन ।
अभि०--यथाऽभ्यासेन विद्या प्रसन्ना सती हृदयं गता भवति तथैव त्वमपि वनकन्दमूलादिभिरेव आहारं विषायास्या अनुसरणेनेमां यावन्मनोरथसिद्धिर्भवति तावत्प्रसादय ।
हिन्दी-जैसे कि अभ्यास के द्वारा विद्या प्रसन्न हो जाती है उसी प्रकार हे